श्रीशिवस्तोत्रम् (१)

Click Settings to choose another script or language.
जय जय शम्भो गिरिजाबन्धो शिव शिव शङ्कर भूतपते ।गिरिश महापज्जलधेरस्मानुद्वर धीर कृपाजलधे ॥ १ ॥
शिव सुरनायक मङ्गलविग्रह कुरु कुरु मङ्गलमाशु विभो ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ २ ॥
शरणं यामश्चरणद्वन्द्वं तवयत् कमलापतिमृग्यम्।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ३ ॥
तव पदकमलादमलादन्यच्चिन्तितमपि न हि चेतसिशंभो ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ४ ॥
नामैवोत्तमतवपदममलं मङ्गलदायकमङ्गलदम् ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ५ ॥
शिव वयमशिवं न भजामस्त्वयि सति सशिवे शिवमूर्तौ ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ६ ॥
भगवन् भवता भवतापहृता न हृतं दुरितं किं नु कृतम् ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ७ ॥
सकृदपि तव हर नामस्मरणं कृतमघकुलहरमतिशुभदम् ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ८ ॥
स्मृतमपि तव हर चरणद्वन्द्वं हरति विषादं किमु दुष्टम् ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ९ ॥
हर यद्यस्मत्कृतमपराधं विविधं कृपया हरसि तथा ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलवे ॥ १० ॥
सुतमपराधिनमपि कृतशिक्ष जनकः पालयतीश यथा ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपा जलधे ॥ ११ ॥
भवता सृष्टं जगदिव सृष्टानस्मानयि भव पालय नित्यम् ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलवे ॥ १२ ॥
जगतामेको जनकस्त्वमतो वयमपि जगतो न हि भिन्नाः ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलवे ॥ १३ ॥
न हि जानीमो भवदन्यं शंकर धीरं पातारम् ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १४ ॥
देव गजासुरपरिहृतविभवानस्मान्भयदसभवानव सदय ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १५ ॥
शरणं भव भव शरणं भव भव भव शरणं त्वं करुणाब्धे ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १६ ॥
नसुता वयमपि तव किमु शम्भो जनको न भवानस्माकम् ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलवे ॥ १७ ॥
भवता सृष्टाः सकला लोका वयमपि तद्वद्धर सृष्टाः ।गिरिश महापज्जलधेरस्मामुद्धर धीर कृपाजलधे ॥ १८ ॥
भव भवदन्यं न वयं यामः सकृदपि शरणं मरणे वा ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १९ ॥
निरवधिकरुणापारावारस्त्वमतो हर हर भवदुःखम् ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ २० ॥
भव भवदीयानस्माननिशं कुरु गतदुःखानतिदुःखान् ।गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ २१ ॥
॥ इति श्रीशिवस्तोत्रम् ॥