जय जय शिवकामसुन्दर्युमे, देवि, रम्याकृते, भक्तराजीहृदन्तःस्थिताज्ञानगाढान्धकारप्रभेदस्फुरद्बालसूर्यायमाणैर्नखैः भूपिते पादकान्त्या निरस्तारुणाभाम्बुजे, जङ्घयाधःकृतानङ्गतूणीयुगे, कन्तुजिन्मोहदोरूद्वयीशोभिते, दिव्यकौसुम्भपट्टाम्बरालङ्कृते, नैकरत्नच्छटाभासुरोद्दामकाञ्चीलतामण्डिते, नीलरोमावलीमेयमध्यानते, कोकयुग्मोल्लसद्वक्षजातोन्नते, तारहारावलीराजिताभ्यन्तरे, पार्विकस्वच्छशीतांशुबिम्बस्फुरद्वक्त्रशोभासरोमज्जदीशानहृज्जातसद्बुद्बुदौपम्यवन्नासिकामौक्तिकोद्भासिते, नीलकञ्जातसौन्दर्यजिल्लोचनोद्यत्कटाक्षावलीरक्षिताशेषलोके, महारत्नराजीलसच्चारुकोटीरभाराजिते, मञ्जुले, कामजित्स्वान्तसम्मोहकान्यङ्गकान्यम्बको वा भृशं वर्णितुं शक्नुयाद्वेदवाचां सुदूराणि दिव्यानि ते सच्चरित्राणि को वेद भूम्यामुमे ॥ १ ॥