श्रीशङ्करकवचम्

Click Settings to choose another script or language.
ऐश्वरं परमं तत्त्वमादिमध्यान्तवर्जितम् ।आधारं सर्वभूतानामनाधारमविक्रियम् ॥ १ ॥
अनन्तानन्दबोधाम्बुनिधिमद्भुतविक्रमम् ।अम्बिकापतिमीशानमनीशं प्रणमाम्यहम् ॥ २ ॥
एकदा मुनयः सर्वे द्वारकां द्रष्टुमागताः ।वासुदेवं च सोत्कण्ठाः कृष्णदर्शनलालसाः ॥ ३ ॥
ततः स भगवान् प्रीतः पूजां चक्रे यथाविधि ।तेषामाशीस्ततो गृह्य बहुमानपुरःसरम् ॥ ४ ॥
तैः पृष्टः कथयामास कुमारप्रभवं च यत् ।चरितं भूमिभारघ्नं लोकानन्दकरं परम् ॥ ५ ॥
मार्कण्डेयमुखाः सर्वे माध्याह्निकक्रियोत्थिताः ।कृष्णः स्नानमथो चक्रे मृदक्षतकुशादिभिः ॥ ६ ॥
सूर्योपस्थानसन्ध्यां च स्मृतिधर्ममनुस्मरन् ।शिवपूजां ततः कृष्णो गन्धपुष्पाक्षतादिभिः ॥ ७ ॥
चकार विधिवद्भक्त्या नमस्कारयुतां शुभाम् ।जय शङ्कर सोमेश रक्ष रक्षेति चाब्रवीत् ॥ ८ ॥
जजाप शिवसाहस्रं भक्तिमुक्तिप्रदं विभोः ।अनन्यमानसः शान्तः पद्मासनगतः शुचिः ॥ ९ ॥
ततस्ते विस्मयापन्ना दृष्ट्वा कृष्णविचेष्टितम् ।मार्कण्डेयोऽवदत् कृष्णं बहुशो मुनिसंमितम् ॥ १० ॥
मार्कण्डेयः ---त्वं कृष्ण कमलाकान्तः परमात्मा जगद्गुरुः ।भवत्पूज्यः कथं शम्भुरेतत्सर्वं वदस्व मे ॥ ११ ॥
श्रीकृष्ण उवाच ---साधु साधु मुने पृष्टं हिताय सकलस्य च ।अज्ञातं तव नास्त्येव तथापि च वदाम्यहम् ॥ १२ ॥
दैवतं सर्वलोकानां सर्वकारणकारणम् ।ज्योतिर्यत्परमानन्दं सावधानमतिः शृणु ॥ १३ ॥
विश्वसाधनमीशानं गुणातीतमजं परम् ।जगतस्तस्थुषो ह्यात्मा मम मूलं महामुने ॥ १४ ॥
यो देवः सर्वदेवानां ध्येयः पूज्यः सदाशिवः ।स शिवः स महादेवः शङ्करश्च निरञ्जनः ॥ १५ ॥
तस्मान्नान्यः परो देवस्त्रिषु लोकेषु विद्यते ।सर्वज्ञः सर्वगः शक्तः सर्वात्मा सर्वतोमुखः ॥ १६ ॥
पठ्यते सर्वसिद्धान्तैर्वेदान्तैर्यो मुनीश्वर ।तस्मिन् भक्तिर्महादेवे मम धातुश्च निर्मल ॥ १७ ॥
महेशः परमं ब्रह्म शान्तः सूक्ष्मः परात्परः ।सर्वान्तरः सर्वसाक्षी चिन्मयस्तमसः परः ॥ १८ ॥
निर्विकल्पो निराभासो निःसङ्गो निरुपद्रवः ।निर्लेपः सकलाध्यक्षो महापुरुष ईश्वरः ॥ १९ ॥
तस्य चेच्छाभवत् पूर्वं जगत्स्थित्यन्तकारिणी ।वामाङ्गादभवं तस्य सोऽहं विष्णुरिति स्मृतिः ॥ २० ॥
जनयामास धातारं दक्षिणाङ्गात् सदाशिवः ।मध्यतो रुद्रमीशानं कालात्मा परमेश्वरः ॥ २१ ॥
तपस्तपन्तु भो वत्सा अब्रवीदिति तान् शिवः ।स्तुत्वा तु विधिवत् स्तोत्रैः प्रणम्य च पुनः पुनः ।ततस्ते शिवमात्मानं प्रोचुः संयतमानसाः ॥ २२ ॥
ब्रह्मविष्णुरुद्रा ऊचुः —तपः केन प्रकारेण कर्तव्यं परमेश्वर ।ब्रूहि सर्वमशेषेण स्वात्मानं वेत्सि नापरः ॥ २३ ॥
महादेव उवाच---कायेन मनसा वाचा ध्यानपूजाजपादिभिः ।कामक्रोधादिरहितं तपः कुर्वन्तु भो सुराः ॥ २४ ॥
देवा ऊचुः---त्वया यत्कथितं शम्भो दुर्ज्ञेयमजितात्मभिः ।सौम्योपायमथो ब्रह्मन् वद कारुण्यवारिधे ॥ २५ ॥
शङ्कर उवाच---शृणुध्वं सर्वपापघ्नं भुक्तिमुक्तिप्रदं नृणाम् ।सहस्रनाम सद्विद्यां जपन्तु मम सुव्रताः ॥ २६ ॥
यया संसारमग्नानां मुक्तिर्भवति शाश्वती ।शृण्वन्तु तद्विधानं तु महापातकनाशनम् ॥ २७ ॥
पठतां शृण्वतां सद्यो मुक्तिः स्यादनपायिनी ।ब्रह्मचारी कृतस्नानः शुक्लवासा जितेन्द्रियः ॥ २८ ॥
भस्मधारी मुनिर्मौनी पद्मासनसमन्वितः ।ध्यात्वा मां सकलाधीशं निराकारं निरीश्वरम् ॥ २९ ॥
पार्वतीसहितं शम्भुं जटामकुटमण्डितम् ।वसानं चर्म वैयाघ्रं चन्द्रार्धकृतशेखरम् ॥ ३० ॥
त्र्यम्बकं वृषभारूढं कृत्तिवाससमुज्ज्वलम् ।सुरार्चितपदद्वन्द्वं दिव्यभोगं सुसुन्दरम् ॥ ३१ ॥
बिभ्राणं सुप्रसन्नं च कुठारवरदाभयम् ।दुरन्तं कमलासीनं नागयज्ञोपवीतिनम् ॥ ३२ ॥
विश्वकायं चिदानन्दं शुद्धमक्षरमव्ययम् ।सहस्रशिरसं शम्भुमनन्तकरसंयुतम् ॥ ३३ ॥
सहस्रचरणं दिव्यं सोमसूर्याग्निलोचनम् ।जगद्योनिमजं ब्रह्म शिवमाद्यं सनातनम् ॥ ३४ ॥
दंष्ट्राकरालं दुष्प्रेक्षं सूर्यकोटिसमप्रभम् ।निशाकरकराकारं भेषजं भवरोगिणाम् ॥ ३५ ॥
पिनाकिनं विशालाक्षं पशूनां पतिमीश्वरम् ।कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ३६ ॥
ज्ञानवैराग्यसंपन्नं नित्यानन्दमयं परम् ।शाश्वतैश्वर्यसंपूर्णं महायोगीश्वरेश्वरम् ॥ ३७ ॥
समस्तशक्तिसंपन्नं पुण्यकायं दुरासदम् ।तारकं ब्रह्म संपूर्णमणीयांसं महत्तरम् ॥ ३८ ॥
यतीनां परमं ब्रह्म यतीनां तपसः फलम् ।संयमीहृत्समासीनं तपस्विजनसंवृतम् ॥ ३९ ॥
विधीन्द्रविष्णुनमितं मुनिसिद्धनिषेवितम् ।महादेवं महानन्दं देवानामपि दैवतम् ॥ ४० ॥
शान्तं पवित्रमोङ्कारं ज्योतिषां ज्योतिरुत्तमम् ।शंकरो मे शिरः पातु ललाटं फाललोचनः ॥ ४१ ॥
विश्वचक्षुर्दृशौ पातु रुद्रः पातु भ्रुवौ मम ।गण्डौ पातु महेशानः श्रुती रक्षतु पूर्वजः ॥ ४२ ॥
कपोलौ मे महादेवः पातु नासां सदाशिवः ।मुखं पातु हविर्भोक्ता ओष्ठौ पातु महेश्वरः ॥ ४३ ॥
दन्तान् रक्षतु देवेशस्तालू सोमकलाधरः ।रसनां परमानन्दः पातु शङ्खौ शिवाप्रियः ॥ ४४ ॥
चुबुकं पातु मे शम्भुः श्मश्रुं शत्रुविनाशनः ।कुचं पातु भवः कण्ठं नीलकण्ठोऽवतु ध्रुवम् ॥ ४५ ॥
स्कन्धौ स्कन्दपतिः पातु बाहू पातु महाभुजः ।उपबाहू महावीर्यः करौ विबुधसत्तमः ॥ ४६ ॥
अङ्गुलीः पातु पञ्चास्यः पर्वाणि च सहस्रपात् ।हृदयं पातु सर्वात्मा स्तनौ पातु पितामहः ॥ ४७ ॥
उदरं हुतभुक् पातु मध्यं मे मध्यमेश्वरः ।कुक्षिं पातु भवानीशः पृष्ठं पातु कुलेश्वरः ॥ ४८ ॥
प्राणान् मे प्राणदः पातु नाभिं भीमः कटिं विभुः ।सक्थिनी पातु मे भर्गो जानुनी जनताधिपः ॥ ४९ ॥
जङ्घे पुररिपुः पातु चरणौ भवनाशनः ।शरीरं पातु मे शर्वो बाह्यमाभ्यन्तरं शिवः ॥ ५० ॥
इन्द्रियाणि हरः पातु सर्वत्र जयवर्धनः ।पूर्वे दिशि मृडः पातु दक्षिणे यमसूदनः ॥ ५१ ॥
वारुण्यां सलिलाधीश उदीच्यां मे महीधरः ।ऐशान्यां पातु भूतेश आग्नेय्यां रविलोचनः ॥ ५२ ॥
नैर्ऋत्यां भूतभृत् पातु वायव्यां बलवर्धनः ।ऊर्ध्वं पातु मखद्वेषी ह्यधः संसारनाशनः ॥ ५३ ॥
सर्वतः सुखदः पातु बुद्धिं पातु सुलोचनः ।एवं न्यासादिकं कृत्वा साक्षाच्छम्भुमयो भवेत् ॥ ५४ ॥
नमो हिरण्यबाह्वादि पठेन्मन्त्रं तु भक्तिमान् ।सद्योजातादिभिर्मन्त्रैर्नमस्कुर्यात्सदाशिवम् ॥ ५५ ॥
॥ इति श्रीशङ्करकवचं सम्पूर्णम् ॥