श्रीषड्वर्णमन्त्राष्टकम् (२)

Click Settings to choose another script or language.
धनुर्धरित्रीधरसार्वभौमो मौर्वी च दर्वीकरसार्वभौमः ।शरस्तु सर्वामरसार्वभौमः पायात्स नो दैवतसार्वभौमः ॥ १ ॥
वेदान्ततत्त्वमथितं नवनीतसारं चिद्रूपदृक् परमशैवरहस्यमन्त्रम् ।ज्योतिर्मयोज्ज्वलनिरञ्जनरूपमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ २ ॥
अश्रान्तदुर्भवसमुद्रतरीशमन्त्रं पापाम्बुराशिडबानलतुल्यमन्त्रम् ।ब्रह्माच्युतेन्द्रसुरमौलिजपैकमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ३ ॥
कामादिवर्गविपिनप्रलयाग्निमन्त्रं दुर्दोषशैलकुलिशाधिकभीममन्त्रम् ।मायान्धकारपरिशोषितभानुमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ४ ॥
अष्टत्रयाष्टपुरवायुविकारकोशक्लेशाष्टपाशबहुदुःखविनाशमन्त्रम् ।दुश्चिन्तदुर्व्यसनदातृविभेदमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ५ ॥
पञ्चप्रसादमहिताक्षरबीजमन्त्रं मन्त्राग्रगण्यभुवनस्तुतमन्त्रराजम् ।सर्वोमन्त्रजनकप्रणवात्ममन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ६॥
ओङ्कारबिन्दुसहिताधिकशक्तिबीजं पञ्चाक्षरत्रितयवर्णकमेकवर्णम्एकादशाक्षरसमन्वितहंसमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ७ ॥
श्रीसज्जनात्मबहिरन्तरदीप्तिकृद्रक्ष्माभागगर्भितनिरन्तरघोषमन्त्रम् ।षट्चक्रमण्टपविहारविशुद्धमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम् ॥ ८ ॥
ड्वर्णमन्त्राष्टकमद्भुतार्थं सर्वागमप्रोक्तजगत्प्रकाशम् ।यः संपठेन्मुक्तिसमस्तभोगान् प्राप्नोति सत्यं सति सिद्धमन्त्रम् ॥ ९ ॥
॥ इति श्रीषड्वर्णमन्त्राष्टकं सम्पूर्णम् ॥