श्रीषडाननस्तुतिः

Click Settings to choose another script or language.
श्रीगौरीसहितेशफालनयनादुद्भूतमग्न्याशुग-व्यूढं विष्णुपदीपयश्शरवणे सम्भूतमन्यादृशम् ।षोढाविग्रहसुन्दरास्यममलं श्रीकृत्तिकाप्रीतयेशर्वाण्यङ्कविभूषणं स्फुरतु मच्चित्ते गुहाख्यं महः ॥ १ ॥
त्रिषडकुशदृगब्जष्षण्मुखाम्भोरुहश्रीःद्विषडतुलभुजाढ्यः कोटिकन्दर्पशोभः ।शिखिवरमधिरूढः शिक्षयन् सर्वलोकान्कलयतु मम भव्यं कार्तिकेयो महात्मा ॥ २ ॥
यद्रूपं निर्गुणं ते तदिह गुणमहायोगिभिर्ध्यानगम्यंयच्चान्यद्विश्वरूपं तदनवधितया योगिभिश्चाप्यचिन्त्यम् ।षड्वक्त्राष्टादशाक्षाद्युपहितकरुणामूर्तिरेषैव भातिस्वाराध्याशेषदुःखप्रशमनबहुलीलास्पदा चाप्यतुल्या ॥ ३ ॥
यच्छ्रीमत्पादपङ्केरुहयुगलमहापादुके स्वस्वमूर्ध्नाधर्तुं विष्णुप्रमुख्या अपि च सुमनसः प्रागकुर्वंस्तपांसि ।तत्तादृक्स्थूलभूतं पदकमलयुगं योगिहृद्ध्यानगम्यंश्रीसुब्रह्मण्य साक्षात् स्फुरतु मम हृदि त्वत्कटाक्षेण नित्यम् ॥ ४ ॥
यस्य श्रीशमुखामराश्च जगति क्रीडां[च]बाल्योद्भवांचित्रारोपितमानुषा इव समालोक्याभवंस्तम्भिताः ।लोकोपद्रवकृत्स नारदपशुर्यस्याभवद्वाहनंसोऽस्मान् पातु निरन्तरं करुणया श्रीबालषाण्मातुरः ॥ ५ ॥
येन साक्षाच्चतुर्वक्त्रः प्रणवार्थविनिर्णये ।कारागृहं प्रापितोऽभूत् सुब्रह्मण्यः स पातु माम् ॥ ६ ॥
कारुण्यद्रुतपञ्चकृत्यनिरतस्यानन्दमूर्तेर्मुखैःश्रीशम्भोः सह पञ्चभिश्च गिरिजावक्त्रं मिलित्वामलम् ।यस्य श्रीशिवशक्त्यभिन्नवपुषो वक्त्राब्जषट्काकृतिंधत्ते सोऽसुरवंशभूधरपविः सेनापतिः पातु नः ॥ ७ ॥
यः शक्त्या तारकोरःस्थलमतिकठिनं क्रौञ्चगोत्रं च भित्त्वाहत्वा तत्सैन्यशेषं निखिलमपि च तान् वीरबाहुप्रमुख्यान् ।उद्धृत्वा युद्धरङ्गे सपदि च कुसुमैर्वर्षितो नाकिबृन्दैःपायादायासतोऽस्मान् स झटिति करुणाराशिरीशानसूनुः ॥ ८ ॥
यद्दूतो वीरबाहुः सपदि जलनिधिं व्योममार्गेण तीर्त्वाजित्वा लङ्कां समेत्य द्रुतमथ नगरीं वीरमाहेन्द्रनाम्नीम् ।देवानाश्वास्य शूरप्रहितमपि बलं तत्सभां गोपुरादीन्भित्त्वा यत्पादपद्मं पुनरपि च समेत्यानमत्तं भजेहम् ॥ ९ ॥
यो वैकुण्ठादिदेवैः स्तुतपदकमलो वीरभूतादिसैन्यैःसंवीत नस्तो [संवीतो यो नभस्तो]झटिति जलनिधिं द्योपथेनैव तीर्त्वा ।शूरद्वीपोत्तरस्यां दिशि मणिविलसद्धेमकूटाख्यपुर्यांत्वष्टुर्निर्माणजायां कृतवसतिरभूत् पातु नः षण्मुखः सः ॥ १० ॥
नानाभूतौघविध्वंसितनिजपृतनो निर्जितश्च द्विरावृ-त्त्यालब्धस्वावमाने निजपितरि ततः सङ्गरे भानुकोपः ।भायी यत्पादभृत्यप्रवरतरमहावीरबाहुप्रणष्ट-प्राणोऽभूत् सोऽस्तु[नित्यं]विमलतरमहाश्रेयसे तारकारिः ॥ ११ ॥
येन कृच्छ्रेण निहतः सिंहवक्त्रो महाबलः ।द्विसहस्रभुजो भीमः ससैन्यस्तं गुहं भजे ॥ १२ ॥
भूरिभीषणमहायुधारवक्षोभिताब्धिगणयुद्धम[ण्डलः]सिंहवक्त्रशिवपुत्रयो रणः सिंहवक्त्रशिवपुत्रयोरिव ॥ १३ ॥
शूरापत्यगणेषु यस्य गणपैर्नष्टेषु सिंहाननोदैत्यः क्रूरबलोऽसुरेन्द्रसहजः सेनासहस्रैर्युतः ।युद्धे च्छिन्नभुजोत्तमाङ्गनिकरो यद्बाहुवज्राहतोमृत्युं प्राप स मृत्युजन्यभयतो मां पातु वल्लीश्वरः ॥ १४ ॥
अष्टोत्तरसहस्राण्डप्राप्तशूरबलं महत् ।क्षणेन यः संहृतवान् स गुहः पातु मां सदा ॥ १५ ॥
अण्डभित्तिपरिकम्पिभीषणक्रूरसैन्यपरिवारपूर्णयोः ।शूरपद्मगुहयोर्महारणः शूरपद्मगुहयोरिवोल्बणः ॥ १६ ॥
नानारूपधरश्च निस्तुलबलो नानाविधैरायुधै-र्युद्धं दिक्षु विदिक्षु दर्शितमहाकायोऽण्डषण्डेष्वपि ।यः शक्त्याशु विभिन्नतामुपगतः शूरोऽभवद्वाहनंकेतुश्चापि नमामि यस्य शिरसा तस्याङ्घ्रिपङ्केरुहे ॥ १७ ॥
केकिकुक्कुटरूपाभ्यां यस्य वाहनकेतुताम् ।अद्यापि वहते शूरस्तं ध्यायाम्यन्वहं हृदि ॥ १८ ॥
देवैः सम्पूजितो यो बहुविधसुमनोवर्षिभिर्भूरिहर्षै-र्वृत्रारिं स्वर्गलोके विपुलतरमहावैभवैरभ्यषिञ्चत् ।तद्दत्तां तस्य कन्यां स्वयमपि कृपया देवयानामुदूह्यश्रीमत्कैलासमाप द्रुतमथ लवलीं चोद्वहंस्तं भजेऽहम् ॥ १९ ॥
तत्रानन्तगुणाभिराममतुलं चाग्रे नमन्तं सुतंयं दृष्ट्वा निखिलप्रपञ्चपितरावाघ्राय मूर्ध्न्यादरात् ।स्वात्मानन्दसुखातिशायि परमानन्दं समाजग्मतुःमच्चित्तभ्रमरो वसत्वनुदिनं तत्पादपद्मान्तरे ॥ २० ॥
दुष्पुत्रैर्जननी सती पतिमती कोपोद्धतैः स्वैरिणीरण्डासीत्यतिनिन्दितापि न तथा भूयाद्यथा तत्त्वतः ।दुष्पाषण्डिजनैर्दुराग्रहपरैस्स्कान्दं पुराणं महत्मिथ्येत्युक्तमपि क्वचिच्च न तथा भूयात्तथा सत्यतः ॥ २१ ॥
किं तु तद्दूषणात्तेषामेव कुत्सितजन्मनाम् ।ऐहिकामुष्मिकमहापुरुषार्थक्षयो भवेत् ॥ २२ ॥
यत्संहिताषट्कमध्ये द्वितीया सूतसंहिता ।भाति वेदशिरोभूषा स्कान्दं तत्केन वर्ण्यते ॥ २३ ॥
यस्य शम्भौ परा भक्तिर्यस्मिन्नीशकृपामला ।अपांसुला यस्य माता तस्य स्कान्दे भवेद्रतिः ॥ २४ ॥
षडाननस्तुतिमिमां यो जपेदनुवासरम् ।धर्ममर्थं च कामं च मोक्षं चापि स विन्दति ॥ २५ ॥
॥ इति श्रीषडाननस्तुतिः सम्पूर्णा ॥