श्रीरङ्गनायिकास्तोत्रम्

Click Settings to choose another script or language.
ईशानां वरदां समस्तजगतां पद्मासनस्थां श्रियंपद्मालङ्कृतपाणिपल्लवयुगां श्रीरङ्गिणः प्रेयसीम् ।वात्सल्यादिगुणोज्ज्वलां मणिमयैर्भूषागणैर्भूषिताम्अस्मन्मातरमब्जकान्तवदनां वन्दे जगन्मातरम् ॥ १ ॥
स्वस्ति श्रीर्दिश मे शशाङ्कवदने कल्याणदे वत्सलेसर्वेषां किल रङ्गनाथदयिते तत्क्षान्तिसंवर्धके ।संत्यक्ते निवहैः सतामशरणे तापत्रयीबाधितेपापिष्ठे मयि दुर्मतौ तव कृपा कार्येत्यहं प्रार्थये ॥ २ ॥
अस्मन्मातः श्रुतीनां शिरसि विलसिते वत्सले सिन्धुकन्येकान्ते श्रीरङ्गराजः कुवलयनयने सर्वलोकाधिराजः ।ईशाने लोकमातः सरसिजवदने दीप्रगात्रे सुशीलेपद्मे त्वं पाहि दीनं भवजलधिगतं दुर्मतिं दुर्दशं माम् ॥ ३ ॥
दुर्वृत्तं दुर्मनीषं भवजलधिगतं विष्णुभक्तापराधै-र्वाग्गात्रस्वान्तजन्यैर्भरितमशरणं गर्हितं सर्वलोकैः ।नित्यं मूर्ख नृशंसं मदनपरवशं मोहवश्यप्रवश्यंदुःखाब्धौ मज्जितं मां सपदि हि कमले पाहि मातः प्रसीद ॥ ४ ॥
श्रीरङ्गनाथदयितेऽखिललोकमातःकार्या कृपा ह्यशरणे मयि सिन्धुकन्ये ।वात्सल्यतस्तु कमले मम दिव्यबोधंदेहि त्वमेव शरणं भव दिव्यसौख्यम् ॥ ५ ॥
सौख्यं प्रदेहि सुभगे दयिते मुरारेःश्रीरङ्गिणः खलु रमे सुलभे सुशीले ।कान्तस्मिते शशिलसद्वदने दया तेनित्यं कुरुष्व मयि मां परिपाहि पद्मे ॥ ६ ॥
कमले कमलारुणदिव्यमुखेसुखदे जगतां खलु कल्पलते ।अयि मामवलोकय सिन्धुसुतेकृपया तव केवलमब्जपदे ॥ ७ ॥
पतितं भववारिधिमध्यगतंसततं विमतं जनताभिमते ।अयि मामवलोकय पद्मकरेदयिते जगदीश्वर रङ्गपतेः ॥ ८ ॥
पदयोः शरणागतमब्धिसुतेतव दीनमकिञ्चनमार्तियुतम् ।अयि मामवलोकय रङ्गपते-र्दयिते विधिशङ्करमुख्यपतेः ॥ ९ ॥
अपि दुःसहपापशतैर्भरितंजगतां जननि क्षमया कमले ।परिपालय मां दयनीयमिमंपरिदीनहृदं तव रङ्गपतेः ॥ १० ॥
युवयोरपि दुःसहपापशतै-र्भुवनेश्वरि रङ्गपतेर्दयिते ।अपि मां भरितं परिपालय तेदयया शरणागतिकं पदयोः ॥ ११ ॥
मातः प्रसीद कमले जगतां सुशीलेतापत्रयीजनितदुःखसहस्रसङ्घैः ।पापैरनन्यगतिकं भरितं च दीनंमां रक्ष दिव्यकृपया शरणागतं त्वाम् ॥ १२ ॥
युष्मत्पदाम्बुजयुगं शरणं गतस्यमातः प्रयच्छ वरदे जगतां प्रियं मे ।श्रीरङ्गनायकि मनोहरदिव्यरूपेपाहि प्रसीद कमले सुभगे सुशीले ॥ १३ ॥
भवसिन्धुमग्नमरविन्दलोचनेप्रणतप्रसन्नमुखचन्द्रमण्डले ।परिपालयाद्य दयनीयदुर्दशंकृपया च मां च कमले दयानिधे ॥ १४ ॥
तव रङ्गिणश्च चरणाम्बुजे विनागतिरस्ति नो च मम रङ्गनायकि ।इह मां कुरुष्व तव किङ्करं सदाजननी समस्तजगतां दयानिधे ॥ १५ ॥
विधिशङ्करेन्द्रमुखनिर्जरैः सदावनितायुतैश्च कमले समर्चिते ।अखिलेष्टदे सकललोकवल्लभेसततं कुरुष्व तव किङ्करं तु माम् ॥ १६ ॥
जननी मम त्वमसि सिन्धुकन्यकेशरणं त्वमेव कमले दयानिधे ।इह निस्तरेयमहमब्जलोचनेकृपया तवैव भवघोरसागरम् ॥ १७ ॥
मातः श्रीः सिन्धुकन्ये कुवलयशफरीपद्मसौगन्धिकादि-प्रस्पर्धिस्फारनेत्रे सरसिजवदने दिव्यलावण्यगात्रे ।बिम्बश्रीविद्रुमाभाधररुचिलसिते दिव्यवक्षोजदीप्रेरक्षश्रीरङ्गहर्म्याङ्गणकनकलते त्वत्कटाक्षैः शुभैर्माम् ॥ १८ ॥
मां रक्ष रङ्गिदयिते मधुरैः कटाक्षै-राभोगतुङ्गरुचिरस्तनभासमाने ।सर्वेश्वरस्तव सुदर्शनलोलदृष्टि-स्त्वां वीक्षते तव पतिः सततं सुशीले ॥ १९ ॥
संमज्जति स्तनतटे तव रङ्गनाथोव्यामुग्धवांस्त्वयि शुभे झषमुग्धनेत्रे ।वश्यः सदा भवति ते कमले ततस्त्वंमां रक्ष रङ्गिदयिते करुणाकटाक्षैः ॥ २० ॥
ईषत्प्रफुल्लकमलोत्पलकान्तनेत्रेमुग्धस्मितप्रविलसद्वदनारविन्दे ।श्रीरङ्गनायकि मनोहरदिव्यगात्रेनित्यं प्रसीद मम वृत्तमचिन्तयित्वा ॥ २१ ॥
श्रीरङ्गराजसयुजे श्रियै कनकभूषणैः ।माणिक्यभूषणैर्दीप्रतन्वङ्ग्यै जयमङ्गलम् ॥ २२ ॥
॥ इति श्रीरङ्गनायिकास्तोत्रं सम्पूर्णम् ॥