श्रीरामप्रपत्तिशतकम्

Click Settings to choose another script or language.
कल्याणाद्रिमहाधीरः कल्याणगुणवारिधिः ।कल्याणरामः कृपया कल्याणानि करोतु नः ॥
राजराजशिरोरत्नराजनीराजिताङ्घ्रये ।राजद्राजीववक्त्राय रामराजाय मङ्गलम् ॥
यः कोसलेन्द्रदुहितुः सुकृतेन साक्षा-ज्जातो हरिस्तनुभवो दिवि वासवाद्यैः ।अस्मान् जगच्च विनुतः परिपालयेतितं राममार्तिहरणं शरणं भजामि ॥ १ ॥
बृन्दारका यदुदये प्रमदादयोध्यांसन्तानकल्पकुसुमैः परितो ववर्षुः ।गन्धर्वजातिरतिगानरता बभूवतं राममार्तिहरणं शरणं भजामि ॥ २ ॥
यस्योदये मनुजलोकशुभोदयोऽभूत्सर्वं क्षणेन जगतो दुरितं प्रशान्तम् ।चक्रुर्मुदा नटनमप्सरसः प्रकामंतं राममार्तिहरणं शरणं भजामि ॥ ३ ॥
यस्याद्वितीयमनघं शुभदं भयघ्नंमुक्तिप्रदं श्रवणमङ्गलमार्तिहारि ।रम्यं समुल्लसति नाम जगत्पवित्रंतं राममार्तिहरणं शरणं भजामि ॥ ४ ॥
यं लक्ष्मणेन भरतेन च सानुजेनबाल्ये सहाभिविहरन्तमवेक्ष्य दृष्ट्या ।प्रापुर्न तृप्तिमवशाः प्रमदेन लोका-स्तं राममार्तिहरणं शरणं भजामि ॥ ५ ॥
यः शैशवे कनकमौक्तिकनीलरत्न-माणिक्यवज्रवरभूषणभूषिताङ्गः ।लोकान् प्ररञ्जयति कुञ्जरमञ्जगत्यातं राममार्तिहरणं शरणं भजामि ॥ ६ ॥
यः शैशवे मधुरसूक्तिसुधाप्रवाहै-र्लोकस्य कर्णहृदयानि मुहुर्निषिच्य ।चक्रे निराकृतसुरपधिपभाग्यमेनंतं राममार्तिहरणं शरणं भजामि ॥ ७ ॥
यं शैशवातिरमणीयसुभद्रवेष-माकर्णदीर्घनवरक्तसरोजनेत्रम् ।धन्या बभूवुरवलोक्य दृशैव पौरा-स्तं राममार्तिहरणं शरणं भजामि ॥ ८ ॥
यं शैशवे नयनसौख्यदचारुलीला-कन्दर्पकोटिकमनीयनरावतारम् ।धन्याभूवुरवलोक्य दृशैव पौरा-स्तं राममार्तिहरणं शरणं भजामि ॥ ९॥
यं मौक्तिकाभरणसुन्दरमन्दहासंनव्यप्रवालरूचिराधरशोभमानम् ।धन्या बभूवुरवलोक्य दृशैव पौरास्तं राममार्तिहरणं शरणं भजामि ॥ १० ॥
यः शैशवे कुशिकजेन मखावनायनीतोऽनुजेन सह संप्रतिपन्नमन्त्रः ।मध्याह्नभास्कर इवातितरां रराजतं राममार्तिहरणं शरणं भजामि ॥ ११ ॥
बाल्ये समस्तजनतावधकारिवृत्तिंयस्ताटकां स्त्रियमपीभसहस्रवीर्याम् ।हत्वा सलीलमकरोद्भुवनं प्रहृष्टुंतं राममार्तिहरणं शरणं भजामि ॥ १२ ॥
यस्ताटकानिधनहृष्टमुनिप्रदिष्टा-न्यस्त्राण्यगण्यमहिमानि चिरन्तनानि ।साक्षाद्विधाय च मनोवशगानि चक्रेतं राममार्तिहरणं शरणं भजामि ॥ १३ ॥
पौगण्ड एव वयसि प्रबलं सुबाहुंयः केसरीव करिणं समितौ निहत्य ।मारीचमन्धिमनयत् सहसा शरेणतं राममार्तिहरणं शरणं भजामि ॥ १४ ॥
यो मैथिलेन्द्रनगरीमभियातुकाम-स्त्रिस्रोतसं द्युपथिकां कुशिकात्मजोक्ताम् ।शृण्वन् मुमोद भृशमात्मकुलीनभूपान्तं राममार्तिहरणं शरणं भजामि ॥ १५ ॥
यो गौतमाख्यमुनियोषितमात्मकान्त-शापोररीकृतशिलावपुषं क्षणेन ।चक्रे स्वपादरजसा तटिदाभदेहांतं राममार्तिहरणं शरणं भजामि ॥ १६ ॥
यो गौतमात्मजसमीरितगाधिसूनु-ब्राह्मण्यसङ्गमकथाश्रुतिहृष्टचेताः ।श्लाघ्यस्तमेव सुचिरं हृदये ननन्दतं राममार्तिहरणं शरणं भजामि ॥ १७ ॥
देवासुरैरपि दुरासदमीशचापंभङ्क्त्वा मृणालमिभराडिव लीलया यः ।सद्यश्चकार जनकं सफलप्रतिज्ञंतं राममार्तिहरणं शरणं भजामि ॥ १८ ॥
यो जानकीपरिणये स्वशिरो विनम्यदोर्भ्यां तदङ्घ्रिसरसीरुहमश्ममौलौ ।आरोप्य तन्मुखमवेक्ष्य जहास मन्दंतं राममार्तिहरणं शरणं भजामि ॥ १९ ॥
यो मैथिलेन्द्रनगरात् स्वपुरं प्रयास्यन्मार्गे गृहीतपरशुं भृगुजं सचापम् ।व्यद्रावयद्धृतशरासनदर्पवीर्यंतं राममार्तिहरणं शरणं भजामि ॥ २० ॥
यो भ्रातृभिस्त्रिभिरुदूढवधूसमेतै-र्हेमप्रसाधितवलद्विरदाधिरूढः ।साकेतमेत्य धरणीसुतयैव रेमेतं राममार्तिहरणं शरणं भजामि ॥ २१ ॥
यो मातुलालयमतिप्रमदेन साकंसंप्रेषयन् ससहजं भरतं स्वपित्रोः ।शुश्रूषया चिरमशेषजनप्रियोऽभूत्तं राममार्तिहरणं शरणं भजामि ॥ २२ ॥
यस्तातमातृवचनावितथीकरस्तंसाम्राज्यभोगमनपेक्ष्य सहानुजेन ।वध्वा ययौ वनमशेषजगद्धितायतं राममार्तिहरणं शरणं भजामि ॥ २३ ॥
यो नव्यशाद्वलतले मृदुपादगत्यागङ्गामुपेत्य गुहमानित उत्तरंस्ताम् ।हित्वा गुहं सरथसूतमभूज्जटाल-स्तं राममार्तिहरणं शरणं भजामि ॥ २४ ॥
यस्तज्जनेन सह सोदरजानकीभ्यांतीर्त्वा लवैः ससलिलाः सरितश्च बह्वीः ।रेमे पुरीव सुदृशा सह चित्रकूटेतं राममार्तिहरणं शरणं भजामि ॥ २५ ॥
यो मातुलस्य निलयाद्वनमागतेनपादानतेन भरतेन पुरागमाय ।संप्रार्थितोऽपि गमनं मनसापि नैच्छत्तं राममार्तिहरणं शरणं भजामि ॥ २६ ।
यो राज्यपालनकृते मणिपादुके स्वेदत्त्वा नताय भरताय च सान्त्वपूर्वम् ।पुर्यै निवर्त्य तमभूत् परमप्रहृष्ट-स्तं राममार्तिहरणं शरणं भजामि ॥ २७ ॥
यः सानुजो वनितया सह चित्रकूटंत्यक्त्वात्रिमस्य च वधूं प्रणिपत्य ताभ्याम् ।दत्तं विभूषणकुलं मुमुदे प्रगृह्यतं राममार्तिहरणं शरणं भजामि ॥ २८ ॥
यो दण्डकावनमुपेत्य खलं विराधंहत्वा विदेहतनयाममितप्रमोदाम् ।कृत्वा तुतोष शरभङ्गकृतामिताशीःतं राममार्तिहरणं शरणं भजामि ॥ २९ ॥
यो वै सुतीक्ष्णमुनिना समनुगृहीतःकुम्भोद्भवं समभिवाद्य मुदा च तस्मात् ।तूणीं शरासनमसिं प्रतिलभ्य रेजेतं राममार्तिहरणं शरणं भजामि ॥ ३० ॥
यो दण्डकावनतपोनिरतैर्मुनीन्द्रै-रभ्यर्थितो निखिलराक्षसनाशनाय ।तेभ्यस्तथेति दयया विदधे प्रतिज्ञांतं राममार्तिहरणं शरणं भजामि ॥ ३१ ॥
यो यातुधाननिधने विधृतप्रतिज्ञःकालं व्यपेक्ष्य निवसन् वरपञ्चवट्याम् ।मित्रं जटायुषमवाप्य तुतोष कामंतं राममार्तिहरणं शरणं भजामि ॥ ३२ ॥
यो दुर्मतिं झटिति शूर्पणखां विभीकांस्वस्मिन् सगर्भकरचूर्णितकर्णनासाम् ।कृत्वा मुमोच दयया विपिने सजीवांतं राममार्तिहरणं शरणं भजामि ॥ ३३ ॥
यो दूषणत्रिशिरसौ च खरं तदीयंसैन्यं चतुर्दशगुणोक्तसहस्रसङ्ख्यम् ।एको निहत्य मुमुदे सहसा जयेनतं राममार्तिहरणं शरणं भजामि ॥ ३४ ॥
यः पङ्क्तिकन्धरहृतां मृगयन् स्वकान्तांतस्याः कृते खगपतिं पथि मुक्तजीवम् ।दग्ध्वा स्वतातवदमुष्य ददौ च मुक्तिंतं राममार्तिहरणं शरणं भजामि ॥ ३५ ॥
यो भक्षितुं स्वमनुजं च कृतप्रयत्नंदग्ध्वा कबन्धमपि योजनदीर्घबाहुम् ।श्रुत्वा तदुक्तशबरीचरितो ननन्दतं राममार्तिहरणं शरणं भजामि ॥ ३६ ॥
यस्तापसीं ससहजः शबरीमुपेत्यतत्कल्पितप्रचुरपूजनलब्धहर्षः ।तद्भुक्तशेषफलभुक् प्रमुमोद कामंतं राममार्तिहरणं शरणं भजामि ॥ ३७ ॥
यो व्याधयोषिदभिसूचितमैत्रपात्रंसुग्रीवमेव मृगयन् समुपेत्य पम्पाम् ।तत्राञ्जनेयमभिगृह्य ननन्द गाढंतं राममार्तिहरणं शरणं भजामि ॥ ३८ ॥
यो वायुसूनुघटिता तुलमैत्रहृष्ट-सुग्रीवदत्तनिजदारविभूषणानि ।दृष्ट्वा तुतोष रमणीमिव वीक्ष्य साक्षा-त्तं राममार्तिहरणं शरणं भजामि ॥ ३९ ॥
यो मित्रपुत्रकथिताग्रजवैरदुःख-निर्मोचनोदितमनाः करुणारसाब्धिः ।हन्यां तमाश्विति ददावभयं च तस्मैतं राममार्तिहरणं शरणं भजामि ॥ ४० ॥
यो मित्रमोदविधये सहसैककेनबाणोत्तमेन विनिहत्य महेन्द्रपुत्रम् ।सुग्रीवमेव कपिराज्यपदेऽभ्यषिञ्च-त्तं राममार्तिहरणं शरणं भजामि ॥ ४१ ॥
यो भूमिशैलनिलयान् जनकेन्द्रपुत्र्याःसंमार्गणाय सहसा कपिनायकेन ।आनाथितान् कपिवरान् मुमुदे समीक्ष्यतं राममार्तिहरणं शरणं भजामि ॥ ४२ ॥
यः सौरिणा कपिवरेषु दिशश्चतस्रःप्रस्तावितेषु कृतिनं हनुमन्तमेव ।ज्ञात्वा करेऽस्य विततार निजाङ्गुलीयंतं राममार्तिहरणं शरणं भजामि ॥ ४३ ॥
यत्प्राभवादितरकीशवरैरलङ्घ्य-वारांनिधिं पथि विधूनितमार्गविघ्नम् ।वेशन्तवल्लघु ततार समीरसूनु-स्तं राममार्तिहरणं शरणं भजामि ॥ ४४ ॥
लङ्कामुपेत्य निशि राक्षसकोटिगुप्तांकेनाप्यदृश्यगतिरेव यदीयभूम्ना ।रक्षोऽवरोधमनिलात्मभवश्चचारतं राममार्तिहरणं शरणं भजामि ॥ ४५ ॥
यत्पादपद्मयुगलस्मरणो हनूमान्सीतां विलोक्य च वितीर्य वराङ्गुलीयम् ।चूडामणिं समुपगृह्य मुदं प्रपेदेतं राममार्तिहरणं शरणं भजामि ॥ ४६ ॥
यत्पादचिन्तनबलाद्दशवक्त्रकान्ता-लीलावनं लघु विभज्य समीरसूनुः ।तत्पालकानपि निहत्य जयी मुमोदतं राममार्तिहरणं शरणं भजामि ॥ ४५ ॥
यत्पादसंश्रयबलांत् पवमानसूनुःसेनापतीन् झटिति पञ्च च मन्त्रिपुत्रान् ।सप्ताक्षमप्यतिबलं सुलभं जघानतं राममार्तिहरणं शरणं भजामि ॥ ४८ ॥
यत्पादसेवनबलेनहि मरुत्कुमारोब्रह्मास्त्रबन्धनमपीन्द्रजिता प्रयुक्तम् ।निर्धूय पङ्क्तिवदनं च तृणाय मेनेतं राममार्तिहरणं शरणं भजामि ॥ ४९ ॥
यत्पादवारिजयुगस्मृतिवैभवेनवालासीम्नि दशकन्धरदीपितेन ।वैश्वानरेण पवनात्मभुवो न दाहःतं राममार्तिहरणं शरणं भजामि ॥ ५० ॥
यत्पादपद्मविनतिप्रभवप्रभावात्पश्यत्सु राक्षसगणेष्वपि वायुसूनुः ।भस्मीचकार रुचिरामविशङ्कय लङ्कांतं राममार्तिहरणं शरणं भजामि ॥ ५१ ॥
यत्पादसंस्तुतिबलेन सुतोऽनिलस्यभस्मावशेषविभवां प्रविधाय लङ्काम् ।तीर्त्वाब्धिमुत्तरतटं पुनराजगामतं राममार्तिहरणं शरणं भजामि ॥ ५२ ॥
यत्पादभक्तिमहिमातिशयेन वायोःपुत्रोऽङ्गदादिकपिभिः सह दुष्प्रवेशम् ।भूत्वा विभोर्मधुवनं च पपौ मधूनितं राममार्तिहरणं शरणं भजामि ॥ ५३ ॥
यत्सन्निधिं समुपगम्य मरुत्तनूजःपादाम्बुजं सविनयं सहसा प्रणम्य ।दृष्टा मया जनकजेति जगाद मोदा-त्तं राममार्तिहरणं शरणं भजामि ॥ ५४ ॥
यो मारुतेर्निजवधूकुशलप्रवृत्तिंचूडामणिं च समवाप्य परं प्रहृष्टः ।सर्वस्वदानसदृशं परिषस्वजे तंतं राममार्तिहरणं शरणं भजामि ॥ ५५ ॥
यः स्वानुजार्कजसमीरजशक्रभूज-नीलादिभिः कपिवरैः सह मन्त्र्यमाणः ।लङ्कां शुभंयुदिवसे चकमेऽभिगन्तुंतं राममार्तिहरणं शरणं भजामि ॥ ५६ ॥
यः पावमानिमधिरुह्य मुदा स्वयं तंतारासुतं समधिरूढवतानुजेन ।सम्भाषमाण इनजेन ययाववाचींतं राममार्तिहरणं शरणं भजामि ॥ ५७ ॥
यः सर्वराक्षसविभेदनबद्धदीक्षै-र्वृक्षायुधैर्हरिबलप्रवरैः परीतः ।तीरं ययौ सपदि दक्षिणवारिराशे-स्तं राममार्तिहरणं शरणं भजामि ॥ ५८ ॥
पङ्क्त्याननानुजजुषेऽपि विभिषणायस्वा‌ङ्घ्रिद्वयीसरसिजं शरणं गताय ।योऽदाच्चिरायुरपि राक्षसराजलक्ष्मींतं राममार्तिहरणं शरणं भजामि ॥ ५९ ॥
गम्भीरमात्मनि पराङ्मुखमम्बुधिं यःक्रुद्धो विशोष्य विशिखेन शिखिप्रभेणतत्प्रार्थितः पुनरमुं स्ववशं निनायतं राममार्तिहरणं शरणं भजामि ॥ ६० ॥
अब्धिं नलेन हरिभिर्लघु बन्धयित्वातीर्त्वा तमाशु निखिलैः सह वानरैर्यः ।लङ्कां निरुच्छ्वसनमारुरुधे समन्तात्तं राममार्तिहरणं शरणं भजामि ॥ ६१ ॥
यो वज्रदंष्ट्रमतिदुष्टमकम्पनं चधूम्राक्षमक्षयमुखानपि राक्षसेन्द्रान् ।रक्षोबलाधिपतिमप्यहनत् प्रहस्तंतं राममार्तिहरणं शरणं भजामि ॥ ६२ ॥
यो लीलया युधि निकृत्तरथध्वजाक्ष-सेनाकिरीटशरचापमतिक्षताङ्गम् ।रक्षोऽधिराजमकरोदपि कान्दिशीकंतं राममार्तिहरणं शरणं भजामि ॥ ६३ ॥
यः कुम्भकर्णमचलं मघवानिवाशुबाणैश्च मूर्ध्नि पदयोरपि चूर्णयित्वा ।शोकाम्बुधावलममज्जयदाशरेन्द्रंतं राममार्तिहरणं शरणं भजामि ॥ ६४ ॥
यो देवतान्तकनरान्तकरातिकाय-कुम्भत्रिशीर्षकनिकुम्भमहोदरादीन् ।संहार्य वानरगणैर्मुमुदे जयेनतं राममार्तिहरणं शरणं भजामि ॥ ६५ ॥
यः शोणिताक्षमकरेक्षणमत्तयुद्धो-न्मत्तान् विरूपनयनादिनिशाचरेन्द्रान् ।संहारयन् कपिवरैर्मुदमाप गाढंतं राममार्तिहरणं शरणं भजामि ॥ ६६ ॥
नाम स्मरन् मनसि यस्य समीरपुत्रोगत्वान्तरं जलधिमेकमुहूर्तमात्रात् ।दिव्यौषधाद्रिमुपगृह्य पुनः समागात्तं राममार्तिहरणं शरणं भजामि ॥ ६७ ॥
यः पाकशासनजितं समुपात्तमायंयज्ञक्रियार्थमुपविष्टनिकुम्भिलान्तम् ।संहार्य समुदमविन्दत लक्ष्मणेनतं राममार्तिहरणं शरणं भजामि ॥ ६८ ॥
यः स्यन्दनेभतुरगालिपदातिपूर्णाःसन्नद्धमूलबलसङ्घपरार्धकोटीः ।यामार्धतः प्रतिजघान सुलीलयैक-स्तं राममार्तिहरणं शरणं भजामि ॥ ६९ ॥
यः कौणपेश्वरशिरांसि दशोज्ज्वलानिकृत्तानि चैकशतमङ्कुरितानि भूयः ।दृष्ट्वा ननन्द शतकण्ठतपःप्रभावंतं राममार्तिहरणं शरणं भजापि ॥ ७० ॥
यो वासवप्रहितमातलिसंप्रणीतंदिव्यं रथं समभिनन्द्य मुदधिरुह्य ।तेजोवृतो विरुरुचेमघवेवसाक्षात्तं राममार्तिहरणं शरणं भजामि ॥ ७१ ॥
यः संयुगे दशमुखं निशितैः स्वबाणै-रापादमस्तकमतीव गवाक्षिताङ्गम् ।कृत्वापि निश्वलमवेक्ष्य बभार हर्षंतं राममार्तिहरणं शरणं भजामि ॥ ७२ ॥
संग्रामभुव्यरिजयाय घटोद्भवेनप्रीत्योपदिष्टमुपगृह्य रविस्तवं यः ।तेजो वहन् युधि बभौ रिपुदुर्निरीक्षंतं राममार्तिहरणं शरणं भजामि ॥ ७३ ॥
रक्षोऽधिपान्तकरणेऽतिविचक्षणोऽपियो मात... ...वतितरां समनुग्रहीतुम् ।आज्ञापितास्त्रमरिनाशकमेव मेनेतं राममार्तिहरणं शरणं भजामि ॥ ७४ ॥
योऽस्त्रेण पद्मजनुषः क्षणदाचरेन्द्रंद्वेधैव वक्षसि विभिद्य निपात्य भूमौ ।लोकाखिलार्तिमपनीय भृशं ननन्दतं राममार्तिहरणं शरणं भजामि ॥ ७५ ॥
यत्संहृतो दशमुखोऽप्यतिपापकर्मासद्यो विधूतकलुषोऽधिकदीपितात्मा।सायुज्यमुक्तिमगमद्वरयोगिगम्यांतं राममार्तिहरणं शरणं भजामि ॥ ७६ ॥
यः सापराधिनमपि क्षणदाचरेन्द्रसंहृत्य संप्रकटयन् स्वकृपालुतांयम्।तेजोमयं स्वपदमेव समानिनायतं राममार्तिहरणं शरणं भजामि ॥ ७७ ॥
निर्वर्त्य चाश्रुतमथाशु विभीषणं योलङ्काधिपत्यपद एव मुदाभिषिच्य ।सङ्ग्राममूर्ध्नि विजयी विरराज धन्वीतं राममार्तिहरणं शरणं भजामि ॥ ७८ ॥
योऽभ्यर्थितोऽपरिचयेऽपि विभीषणेनतं मानयन् सकरुणं निजसान्त्ववाक्यैः ।पूजां जहर्ष सुहृदां हृदि कारयित्वातं राममार्तिहरणं शरणं भजामि ॥ ७९ ॥
सौशील्यनिर्जितवसिष्ठवधूस्वभावांप्राणप्रियां निजवधूमपि धर्मबद्धः ।निन्दन् वपुस्त्रिजगतीमनलो न मेने(?)तं राममार्तिहरणं शरणं भजामि ॥ ८० ॥
यस्मै भिया हुतवहो निजसात्कृताङ्गी-मत्यादृतांशुकविभूषितदिव्यदेहाम् ।अङ्के वहन् पुनरदादवनीतनूजांतं राममार्तिहरणं शरणं भजामि ॥ ८१ ॥
संवीक्ष्य यं विजयिनं शिवपद्मजेन्द्र-वैवस्वताम्बुपतिवैश्रवणादिदेवाः ।कल्पप्रसूननिकरैः समुदोऽभ्यवर्षंतंराममार्तिहरणं शरणं भजामि ॥ ८२ ॥
राम प्रसीद रघुवीर रणाग्रधीरक्षःकुलान्तक विभो विजयी भवेति ।यः संस्तुतोऽखिलसुरैर्विरराज वीरःतं राममार्तिहरणं शरणं भजामि ॥ ८३ ॥
यस्त्र्यम्बकेण धुरि दर्शितमात्मतातंदृष्टा समुज्ज्वलविमानगतं प्रणम्य ।अङ्के धृतः सपदि तेन ननन्द कामंतं राममार्तिहरणं शरणं भजामि ॥ ८४ ॥
यः पूर्वमात्मगुरुणा भरते वितीर्णंशापं तमेनमभिवाद्य च तत्प्रसादात् ।संमोचयन् तमतनोत्तदनुगृहीतंतं राममार्तिहरणं शरणं भजामि ॥ ८५ ॥
उज्जीवयन् पुनरपि प्रहतान् समीकेकीशान् सुरोत्तमवरच्छलतःसुरेषु ।यो वैभवप्रकटनाय मुदान्वितोऽभूत्तं राममार्तिहरणं शरणं भजामि ॥ ८६ ॥
यः पुष्पकं समधिरुह्य वधूसहायःसाकं निजानुजविभीषणभानुसूभिः ।अन्यैर्हरीन्द्रनिकरैः स्वपुरीं प्रतस्थेतं राममार्तिहरणं शरणं भजामि ॥ ८७ ॥
गच्छन् पुरीं दिवि विमानग एव वध्वैयुद्धे दशाननमुखारिवधस्थलानि ।सन्दर्शयन् सह तया मुमुदे भृशं य-स्तं राममार्तिहरणं शरणं भजामि ॥ ८८ ॥
यो वायुजागममहस्करपुत्रमैत्रींभिल्लप्रियार्चनविधिं च महीसुतायै ।जल्पन्निमां व्यधित विस्मितचित्तवृत्तिंतं राममार्तिहरणं शरणं भजामि ॥ ८९ ॥
यश्चोदितो वनितया कपिवर्यपुर्यांतारामुखाः कपिवधूः परिभूषिताङ्गीः ।आनाय्य यानमधिरोप्य बभार हर्षंतं राममार्तिहरणं शरणं भजामि ॥ ९० ॥
यो वानरीभ्य उरुमैत्रभरान्विताभ्यःआत्माटवीगमनहेतुमुदीरयन्तीम् ।कान्तां विलोक्य मधुरं प्रहसन् जगामतं राममार्तिहरणं शरणं भजामि ॥ ९१ ॥
यः सर्वमित्रनिकरैरनुजेन वध्वासाकं पुरन्दरपुरोहितनन्दनस्य ।प्राप्याश्रमं तमभिवाद्य कृतार्थ आसी-त्तं राममार्तिहरणं शरणं भजामि ॥ ९२ ॥
यस्तापसेन भृशमर्चितमात्मपुर्यांशृण्वन् स्वबन्धुकुशलानि तदीयवाचा ।ज्ञात्वा ननन्द भरतस्य तपस्विवृत्तिंतं राममार्तिहरणं शरणं भजामि ॥ ९३ ॥
यो वायुजोदितनिजागमनश्रुतिश्री-संपूर्णचित्तभरतं प्रणताङ्घ्रिपद्मम् ।प्रीत्या निजाङ्कमधिरोप्य तमालिलिङ्गतं राममार्तिहरणं शरणं भजामि ॥ ९४ ॥
भक्त्या य आर्तजननीमभिवाद्य चान्याःप्रीत्या तदीरितमहाशिष आदधानः ।रेजे शतक्रतुरिव प्रसुवा समेतःतं राममार्तिहरणं शरणं भजामि ॥ ९५ ॥
यः सोदरैर्वनितया हरिभिश्च नन्दि-ग्रामात समं नवसहस्रगजाधिरूढैः ।प्राप्याभवत् प्रमदवान्नगरीमयोध्यांतं राममार्तिहरणं शरणं भजामि ॥ ९६ ॥
राज्यावनक्षमतमे भरतप्रणीतेसंयोज्य यः स्वपदयोर्मणिपादरक्षे ।पूर्णं मनोरथमहो भरतस्य चक्रेतं राममार्तिहरणं शरणं भजामि ॥ ९७ ॥
योऽनुग्रहं हरिवराय वितीर्य पूर्वपश्चात् स्वयं नतविभीषणदत्तहस्तः ।यस्तातवेश्म समलङ्कृतमाससादतं राममार्तिहरणं शरणं भजामि ॥ ९८ ॥
युक्ते वसिष्ठगदिते विजये मुहूर्तेसिंहासने रविशतद्युतिरत्नदीप्ते ।अध्यास्य मेरुशिखरेऽर्क इवाभिरेजेतं राममार्तिहरणं शरणं भजामि ९९ ॥
यं वायुजप्रमुखवानरवर्यनीत-गङ्गादिसिन्धुचतुरर्णवपुण्यतोयैः ।ब्रह्मात्मजो मुनिवरो विधिनाभ्यषिञ्चत्तं राममार्तिहरणं शरणं भजामि ॥ १०० ॥
मान्यं मनुप्रभृतिभिर्मकुटं महार्घंमौलौ वसिष्ठमुनिना निहितं वहन् यः ।मध्येसभं विरुरुचे मधुहेव साक्षा-त्तं राममार्तिहरणं शरणं भजामि ॥ १०१ ॥
यस्मिन् स्वयं त्रिभुवनावनभारदक्षेसर्वंसहापतिपदे सहसाभिषिक्ते।भेजे मही वसुमतीपदवाच्यभावंतं राममार्तिहरणं शरणं भजामि ॥ १०२ ॥
कान्तस्य यस्य जगतां कलिताभिषेकेहृष्टा बभूव धरणीयमकृष्टपच्या ।गावः सुपुष्टवपुषो ह्यभवन् घटोध्न्यःतं राममार्तिहरणं शरणं भजामि ॥ १०३ ॥
यस्मिन् प्रभौ भुवि महीसुरपूर्ववर्णाआसन्नधर्मविरता निजधर्मनिष्ठाः ।अन्योन्यवैरविमुखाः करुणार्द्रचित्ता-स्तं राममार्तिहरणं शरणं भजामि ॥ १०४ ॥
यस्मिन् धरां समनुशासति सर्वमर्त्याअसन् सहस्रशरदायुरनेकपुत्राः ।आढ्याः प्रमोदभरिताश्च निरामयाश्चतं राममार्तिहरणं शरणं भजामि ॥ १०५ ॥
यस्य प्रभुत्वपदमावहतो धरण्यांसामन्तभूमिपतयः स्वयमङ्घ्रिपद्मे ।निक्षिप्तमौलिमकुटाः करदा बभूवु-स्तं राममार्तिहरणं शरणं भजामि ॥ १०६ ॥
यस्मिन् क्षितीशपदभाजि भुवि प्रभीतारक्षः पिशाचकुलदुर्ग्रहभूतवर्गाः ।क्षुद्रान् जनानपि कदापि न पीडयन्तितं राममार्तिहरणं शरणं भजामि ॥ १०७ ॥
जातु स्मृते दुरितहारिणि यस्य नाम्निनश्यन्त्यघानि सकलानि पुराकृतानि ।वाञ्छाधिकानि कुशलानि भवन्ति सद्य-स्तं राममार्तिहरणं शरणं भजामि ॥ १०८ ॥
अष्टोत्तरैकशतपद्यसुपूरितेनभक्त्यामुहुः स्तुतिवरेण मयेड्यमानः ।रामः स एष जनकात्मजया समेतःप्रीतः सदापि हृदये मम सन्निधत्ताम् ॥ १०९ ॥
॥ इति श्रीरामप्रपत्तिशकं सम्पूर्णम् ॥