श्रीरामानुस्मृतिः

Click Settings to choose another script or language.
ब्रह्मोवाच---वन्दे रामं जगद्वन्द्यं सुन्दरास्यं शुचिस्मितम् ।कन्दर्पकोटिलावण्यं कामितार्थप्रदायकम् ॥ १ ॥
भास्वत्किरीटकटककटिसूत्रोपशोभितम् ।विशाललोचनं भ्राजत्तरुणारुणकुण्डलम् ॥ २ ॥
श्रीवत्सकौस्तुभलसद्वक्षसं वनमालिनम् ।मुक्ताहारसुशोभाढ्यं मुद्रिकारत्नभासुरम् ॥ ३ ॥
सर्वाङ्गसुन्दरं हृद्यं द्विभुजं रघुनन्दनम् ।नीलजीमूतसङ्काशं नीलालकवृताननम् ॥ ४ ॥
ज्ञानमुद्रालसद्वक्षोबाहुं ज्ञानमयं हरिम् ।वामजानूपरिन्यस्तवामहस्ताम्बुजं प्रभुम् ॥ ५ ॥
वीरासने समासीनं विद्युत्पुञ्जनिभाम्बरम् ।कोटिसूर्यप्रतीकाशं कोमलाङ्गसमुज्ज्वलम् ॥ ६ ॥
जानकीलक्ष्मणाभ्यां च वामदक्षिणशोभितम् ।हनुमद्रविमुख्यादिकपिमुख्यैश्च सेवितम् ॥ ७ ॥
दिव्यरत्नसमायुक्तसिंहासनगतं प्रभुम् ।प्रत्यहं प्रातरुत्थाय ध्यात्वैवं राघवं हृदि ॥ ८ ॥
एभिः षोडशभिर्नामपदैः स्तुत्वा नमेद्धरिम् ।नमो रामाय शुद्धाय बुद्धाय परमात्मने ॥ ९ ॥
विशुद्धज्ञानदेहाय रघुनाथाय ते नमः ।नमो रावणहन्त्रे ते नमो वालिविनाशिने ॥ १० ॥
नमो वैकुण्ठनाथाय नमो विष्णुस्वरूपिणे ।नमो यज्ञस्वरूपाय यज्ञभोक्त्रे नमो नमः ॥ ११
योगिध्येयाय योगाय परमानन्दरूपिणे ।शङ्करप्रियमित्राय जानकीजानये नमः ॥ १२ ॥
य एवं प्रातरुत्थाय भक्तिश्रद्धासमन्वितः ।षोडशैतानि नामानि रामचन्द्रस्य नित्यशः ॥ १३ ॥
पठेद्विद्वान् स्मरन् रामं स एव स्याद्रघूत्तमः ।श्रीरामे भक्तिरचला भवत्येव हि सर्वदा ॥ १४
समये समनुप्राप्ते राघवः सीतया सह ।हृदि संदृश्यते तस्य साक्षात् सौमित्रिणा सह ॥ १५ ॥
नित्यं चापररात्रेषु रामस्यैतां समाहितः ।मुच्यतेऽनुस्मृतिं जप्त्वा मृत्युदारिद्र्यपातकैः ॥ १६॥
॥ इति ब्रह्मप्रोक्तं श्रीरामानुस्मृतिस्तोत्रं सम्पूर्णम् ॥