श्रीरामनामस्तुतिः

Click Settings to choose another script or language.
राशब्दोच्चारणादेव मुखान्निर्यान्ति पातकाः ।पुनः प्रवेशनभिया मशब्दस्तु कवाटवत् ॥ १ ॥
रामेति वर्णद्वयमादरेणसदा स्मरन् मुक्तिमुपैति जन्तुः ।कलौ युगे कल्मषमानसाना-मन्यत्र धर्मे खलु नाधिकारः ॥ २ ॥
जानाति राम तव नामरुचिं महेशोजानाति गौतमसती चरणप्रभावम् ।जानाति दोर्बलपराक्रममीशचापोजानात्यमोघपटुबाणगतिं पयोधिः ॥ ३ ॥
जानाति राम तव चित्तगतिं हनूमान्जानाति राम तव सख्यगतिं कपीशः ।जानाति राम तव युद्धगतिं दशास्योजानाति राम तव मोक्षगतिं[खगेन्द्रः]॥ ४ ॥
पटुतरजलधीरध्वानमादाय चापंपवनजवनमेकं बाणमाकृष्य तूणात् ।अभयवचनदायी सानुजः सर्वतो मेरणहतदनुजेन्द्रो रामचन्द्रः सहायः ॥ ५ ॥
॥ इति श्रीरामनामस्तुतिः सम्पूर्णा ॥