श्रीरमणचत्वारिंशत्

Click on words to see what they mean.

वन्दे श्रीरमणर्षेराचार्यस्य पदाब्जम् ।यो मेऽदर्शयदीशं भान्तं ध्वान्तमतीत्य ॥ १ ॥
कथया निजया कलुषं हरता करुणानिधिनाऽरुणशैलजुषा ।खगवाहनभाषिततत्त्वविदा वृषवाहनमौनरहस्यभृता ॥ २ ॥
गणराण्मुखसूरिसभागुरुणा गुणसञ्चयरत्नमहोदधिना ।घनगूढसहस्रकरेण यथा तनुकञ्चुकगुप्तमहामहसा ॥ ३ ॥
चतुरेण चलेन्द्रियनिग्रहणे पटुना परकीयगुणग्रहणे ।छलवर्जितमौनसमाधिजुषा बलतर्जितभीकरकामरुषा ॥ ४ ॥
जठरं समये परिपूरयता कठिनं व्रतमद्रितटे चरता ।झषकेतनशस्त्रदुरापहृदा कृषिमात्मविबोधविधौ दधता ॥ ५ ॥
भवभीकरवारिनिधिं तरता करतामरसेन सुपात्रवता ।स्वदृशाऽधिकशीतलकान्तिभृता भयमङघ्रिसरोजजुषां हरता ॥ ६ ॥
नमतामतिभक्तिमतां निधिना घनतापविधूननसन्निधिना ।यतिधर्मततिं परिपालयता परितश्च तमो विनिवारयता ॥ ७ ॥
फणिनायकवर्ण्यगुणौघभृता भणितीः प्रियसत्यहिता भणता ।बहुमानवशादयता सुखितामवमानततेरविदूनवता ॥ ८ ॥
यतिनामधिपेन कुशाग्रलसन्मतिना धृतिना शितचित्तभुवा ।लहरींप्रमदस्य सदावहता निहतान्तरशात्रवसंहतिना ॥ ९ ॥
भगवत्पदमन्यजनासुलभं स्वगुणैरधिगत्य परं जयता ।ममतारहितेन हितेन सतां निहितेन गणप्रभुणा हृदये ॥ १० ॥
धरणीधरजाङ्कमपि त्यजता धरणीतलवासितमोधुतये ।नरवेषभृता नगरन्ध्रकृता रमणेन सनाथमिदं भुवनम् ॥ ११ ॥
परदेशिनेव धवलेन वाससः शकलेन वेष्टितकटीविशोभिना ।वरदेशिकेन नरवेषधारिणा शिखिवाहनेन गुरुमज्जगद्भवेत् ॥ १२ ॥
अतीतगुणजालाय नैष्ठिकब्रह्मचारिणे ।नमो मायामनुष्याय गुरवे तारकारये ॥ १३ ॥
यानायात्र न केकिनां कुलपतिः स्नानाय न स्वर्णदीपानाय क्षितिभृन्महेन्द्रदुहितुर्नस्तन्यदुग्धामृतम् ।गानाय प्रमथेश्वरास्सवयसो नैवात्र वीणाभृतोवासं शोणगिरौ करोषि भगवन् क्रौञ्चाद्रिभेत्तः कुतः ॥ १४ ॥
एकं वक्त्रमुमाङ्कवासविरहः पाणौ न शक्त्यायुधंमर्त्यत्वं न पताकिनी च पृतना पार्श्वद्वये नाकिनाम् ।वेषोऽलं पुनरेष मुग्धनयनप्रच्छादने भूजुषा-मन्तर्धानमुपैषि तारकरिपो क्व स्तन्यदायादतः ॥ १५ ॥
केचिद्योगविदां पुरःसर इति प्रज्ञानिबुद्ध्या परेसाधुः कश्चिदितीतरे गुरुधिया केऽप्यङ्घ्रिपद्मं तव ।सेवन्ते रमणाभिधानमनुजक्षेमाय जातक्षितौद्वित्रास्त्वां गिरिजाङ्कपीठनिलयं जानन्ति देवं गुहम् ॥ १६ ॥
ओङ्कारार्थमुपादिशो भगवते वाणीमनोहारिणेतातायाप्युपदेष्टुमुद्यतमभूत् किञ्चित्त्वदीयं मुखम् ।ज्येष्ठस्याद्य सहोदरस्य गुरुतां प्राप्तोऽसि धीगौरवात्सुब्रह्मण्य कनिष्ठतामपि गतः सर्वाधिकस्त्वं गुणैः ॥ १७ ॥
यत्पूर्वं श्रुतिपारदर्शिधिषणो द्वैपायनोऽध्यारुहत्पश्चाद्बोधकलाविधूततिमिरः शङ्कापहश्शङ्करः ।तत्सम्प्रत्यखिलावनीतलजुषामाचार्यसिंहासनंदेव त्वां प्रतिवीक्षते नरतनो गीर्वाणसेनापते ॥ १८ ॥
धर्मे नाशमुपागते त्रिभुवने पर्याकुले पापतःप्रज्ञाने परितो गिरां पथि मुधा सञ्चार्यमाणे जनैः ।सद्भावे परमेश्वरस्य च पितुः सन्देहडोलां गतेद्वीपः कैतवमर्त्यकेकितुरग त्वामन्तरा कस्सताम् ॥ १९ ॥
वैराग्यं तव वित्तमस्तु करुणां शक्नोषि हातुं कथंदूष्यस्तेऽस्तु समुद्यमः पितृपदध्यानं च किं तादृशम् ।कामस्तेऽस्तु विगर्हितो विनमतां रक्षा च किं गर्हितास्कन्दच्छद्ममनुष्य किं नु समयं कञ्चित्समुद्वीक्षसे ॥ २० ॥
दूरं याहि कुवाद धर्मवृष ते नेतः परं पङ्गुतादुर्भ्रान्ते भुवनं जहीहि परितो वर्धस्व संसत्सताम् ।सोदर्येण समन्वितो भुवमिमां प्राप्तो गुरुग्रामणीःशूरान्तःपुरनेत्रविभ्रमहरो देवो भवानीसुतः ॥ २१ ॥
जन्मस्थानमवाप्य गुप्तमहमो यो भेदमाधूतवान्भूतानां चरतां पृथग्विधधियामात्मैव यो भासते ।देहं सर्वमिदं जगच्च विभवादाक्रम्य यः प्रोल्लस-त्येकस्तं गुरुमूर्तिमानमत रे लम्बोदरभ्रातरम् ॥ २२ ॥
अन्तर्यश्च बहिर्विधूततिमिरं ज्योतिर्मयं शाश्वतंस्थानं प्राप्य विराजते विनमतामज्ञानमुन्मूलयन् ।पश्यन्विश्वमपीदमुल्लसति यो विश्वस्य पारे पर-स्तस्मै श्रीरमणाय लोकगुरवे शोकस्य हन्त्रे नमः ॥ २३ ॥
प्रसरतादितः शुभविलोकितम् ।रमण ते सकृत्फलतु मे कृतम् ॥ २४ ॥
रमण जन्मिनामयि भवान् गुरुः ।अभिद आशयस्तव महानुरुः ॥ २५ ॥
जगदहं परः स्फुरति मे त्रयम् ।सदभिदं गिरा तव विसंशयम् ॥ २६ ॥
त्वदुपदेशतो गलति संविदा ।मयि निरन्यया सदहमोर्भिदा ॥ २७ ॥
अहमि योऽन्तरस्तममलं हृदि ।अनुभवेम भोस्तव कृपा यदि ॥ २८ ॥
न करुणा गुणस्तव विदां पते ।हृदयतेजसः सहजभैवते ॥ २९ ॥
तव तनुर्ज्वलत्यनघ विद्युता ।तव दृगातता लसति भास्वता ॥ ३० ॥
कबलितं मनस्तव विभो हृदा ।त्वमसि सन्ततं विलसितो मुदा ॥ ३१ ॥
भुवनभूपतेर्भगवतः कृते ।भवसि पाचको यमवतां पते ॥ ३२ ॥
नरपशूनिमानहमि ताडयन् ।परशिवौदनं वितनुषे पचन् ॥ ३३ ॥
तिमिराणि न केवलं वचोभिःकरुणापाङ्गविलोकितैश्च नृणाम् ।हृदये प्रसरन्ति मर्दयन्तंभगवन्तं रमणं गुरुं नमामि ॥ ३४ ॥
भवजलनिधिं गाहं गाहं चिरादलसालसान्पदजलरुहद्वन्द्वद्वीपं श्रितांस्तव सम्प्रति ।रमणभगवन् कल्याणानां निकेतन पाहि नःसदय दयया सिक्तैर्भक्तानपाङ्गविलोकितैः ॥ ३५ ॥
यदि न जननी स्तन्यं दद्याच्छिशोर्बत का गतिःयदि पशुपतिः क्रोधं कुर्यात्पशोरवनं कुतः ।यदि पदजुषामाचार्य त्वं निहंसि न संशयंभ्रमशतपराभूता एते तरन्तु भवं कथम् ॥ ३६ ॥
विशदहसिते पूर्णा शान्तिः सुधाकरसोदरेस्थिरपृथुलयोः पूर्णा शक्तिर्दृशोरतुलार्चिषोः ।हृदयकमले नित्या निष्ठा बहिश्च सरत्प्रभेरमणभगवन् को वा मौनी समस्तव भूतले ॥ ३७ ॥
देवी शक्तिरियं दृशोः श्रितजनध्वान्तक्षयाधायिनीदेवी श्रीरियमम्बुजाक्षमहिषी वक्त्रे सहस्रच्छदे ।देवी ब्रह्मवधूरियं विजयते व्याहारगूढा पराविश्वाचार्य महानुभाव रमण त्वां स्तौतु कः प्राकृतः ॥ ३८ ॥
सोऽहं जातो रमणभगवन् पादयोस्ते दविष्ठोयद्यप्यस्मिन्महति समये शक्तिलास्ये प्रवृत्ते ।सूर्यस्येव ज्वलितमहसो दूरगां नाथ शक्तिंविश्वस्याग्य्रां तव मम मनो वीतदुःखं तथापि ॥ ३९ ॥
तद्भागधेयमसमानमनेकमौनि-वासार्जितं क्षितिभृतः खलु लोहितस्य ।अङ्गीचकार भगवान् रमणो महर्षि-रन्येषु सत्सु यदिमं बहुषु स्थलेषु ॥ ४० ॥
शान्तिर्नितान्तमधिका परमास्य शक्ति-र्वैराग्यमद्भुततमं करुणा तु सान्द्रा ।ज्ञानं निरस्तकुहनं मधुरं च वृत्तंनॄणां निदर्शनमयं रमणो महर्षिः ॥ ४१ ॥
नारसिंहिर्गणपतिर्वासिष्ठो रमणं गुरुम् ।चत्वारिंशन्मितैः पद्यैः स्कन्दांशं स्तुतवानृषिम् ॥ ४२ ॥