श्रीरामाक्षरमालास्तोत्रम्

Click Settings to choose another script or language.
अखिलाधारं श्रीरामंआगमविनुतं श्रीरामम् ।इष्टरक्षणं श्रीरामंईप्सितफलदं श्रीरामम् ॥ १ ॥
उग्रपूजितं श्रीरामंऊर्जितफलदं श्रीरामम् ।ऋषिगणवन्द्यं श्रीरामंऋवरपक्षं श्रीरामम् ॥ २ ॥
ऌचयस्तोत्रं श्रीरामंलूननताघं श्रीरामम् ।एकविक्रमं श्रीरामंऐहिकफलदं श्रीरामम् ॥ ३ ॥
ओंनुतिफलदं श्रीरामंऔदार्यवरं श्रीरामम् ।अंबुदरूपं श्रीरामंआमुष्मिकदं श्रीरामम् ॥ ४ ॥
कम्बुग्रीवं श्रीरामंखरसंहारं श्रीरामम् ।गजराड्वरदं श्रीरामंघनसदृशाङ्गं श्रीरामम् ॥ ५ ॥
ङज्युतिकरणं श्रीरामंचटुलास्त्रधरं श्रीरामम् ।छन्दोविनुतं श्रीरामंजलजाताक्षं श्रीरामन् ॥ ६ ॥
झषवररूपं श्रीरामंञेशात्मस्थं श्रीरामम्टिट्टिभहस्तं श्रीरामंठपूजाङ्घ्रि श्रीरामम् ॥ ७ ॥
डापतिनाशं श्रीरामंढंमन्त्रहरं श्रीरामम् ।णक्रोधात्मं श्रीरामंतपनान्वयजं श्रीरामम् ॥ ८ ॥
थपरिपालं श्रीरामंदशरथबालं श्रीरामम् ।धरणीलोलं श्रीरामंनरहरिरूपं श्रीरामम् ॥ ९ ॥
परमपावनं श्रीरामंफल्गुनसुहृदं श्रीरामम् ।बलिमददलनं श्रीरामंभण्डनसुदृशं श्रीरामम् ॥ १० ॥
मन्मथजनकं श्रीरामंयमिजनवेद्यं श्रीरामम् ।रघुकुलतिलकं श्रीरामंलक्ष्मीलोलं श्रीरामम् ॥ ११ ॥
वदनजितेन्दुं श्रीरामंशङ्करविनुतं श्रीरामम् ।षट्पदकान्तं श्रीरामंसरसिजनाभं श्रीरामम ॥ १२ ॥
हतदेवारिं श्रीरामंलक्ष्मणाग्रजं श्रीरामम् ।वनजातदृशं श्रीरामंशफरसुनयनं श्रीरामम् ॥ १३ ॥
षड्वर्णज्ञं श्रीरामम्सरसिजनयनं श्रीरामं ।हतदेवारिं श्रीरामंक्षरणविरहितं श्रीरामम् ॥ १४ ॥
॥ इति श्रीरामाक्षरमालास्तोत्रं सम्पूर्णम् ॥