श्रीराघवस्तोत्रम्

Click Settings to choose another script or language.
इन्द्रनीलाचलश्याममिन्दीवरदृगुज्ज्वलम् ।इन्द्रादिदैवतैः सेव्यमीडे राघवनन्दनम् ॥ १ ॥
पालिताखिलदेवौघं पद्मगर्भं सनातनम् ।पीनवक्षःस्थलं वन्दे पूर्णं राघवनन्दनम् ॥ २ ॥
दशग्रीवरिपुं भद्रं दावतुल्यं सुरद्विषाम् ।दण्डकामुनिमुख्यानां दत्ताभयमुपास्महे ॥ ३ ॥
कस्तूरीतिलकाभासं कर्पूरनिकराकृतिम् ।कातरीकृतदैत्यौघं कलये रघुनन्दनम् ॥ ४ ॥
खरदूषणहन्तारं खरवीर्यभुजोज्ज्वलम् ।खरकोदण्डहस्तं च खस्वरूपमुपास्महे ॥ ५ ॥
गजविक्रान्तगमनं गजार्तिहरतेजसम् ।गम्भीरसत्वमैक्ष्वाकं गच्छामि शरणं सदा ॥ ६ ॥
घनराजिलसद्देहं घनपीताम्बरोज्ज्वलम् ।घूत्कारद्रुतरक्षौघं प्रपद्ये रघुनन्दनम् ॥ ७ ॥
चलपीताम्बराभासं चलत्किङ्किणिभूषितम् ।चन्द्रबिम्बमुखं वन्दे चतुरं रघुनन्दनम् ॥ ८ ॥
सुस्मिताञ्चितवक्त्राब्जं सुनूपुरपदद्वयम् ।सुदीर्घबाहुयुगलं सुनाभिं राघवं भजे ॥ ९ ॥
हसिताञ्चितनेत्राब्जं हताखिलसुरद्विषम् ।हरिं रविकुलोद्भूतं हाटकालङ्कृतं भजे ॥ १० ॥
रविकोटिनिभं शान्तं राघवाणामलङ्कृतिम् ।रक्षोगणयुगान्ताग्निं रामचन्द्रमुपास्महे ॥ ११ ॥
लक्ष्मीसमाश्रितोरस्कं लावण्यमधुराकृतिम् ।लसदिन्दीवरश्यामं लक्ष्मणाग्रजमाश्रये ॥ १२ ॥
वालिप्रमथनाकारं वालिसूनुसहायिनम् ।वरपीताम्बराभासं वन्दे राघवभूषणम् ॥ १३ ॥
शमिताखिलपापौघं शान्त्यादिगुणवारिधिम् ।शतपत्रदृशं वन्दे शुभं दशरथात्मजम् ॥ १४ ॥
कुन्दकुड्मलदन्ताभं कुङ्कुमाङ्कितवक्षसम् ।कुसुम्भवस्त्रसंवीतं पुत्रं राघवमाश्रये ॥ १५ ॥
मल्लिकामालतीजातिमाधवीपुष्पशोभितम् ।महनीयमहं वन्दे महतां कीर्तिवर्धनम् ॥ १६ ॥
इदं यो राघवस्तोत्रं नरः पठति भक्तिमान् ।मुक्तः संसृतिबन्धाद्धि स याति परमं पदम् ॥ १७ ॥
॥ इति श्रीराघवस्तोत्रं सम्पूर्णम् ॥