श्रीपार्वतीमानसस्तोत्रम्

Click Settings to choose another script or language.
कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि-द्वीपे कल्पकवाटिकापरिवृते कादम्बवाप्युज्ज्वलेरत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमेचिन्तारत्नविनिर्मितं जननि ते सिंहासनं भावये ॥ १ ॥
एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्यस्थितांबालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।चापं बाणमपि प्रसन्नवदनां कौसुम्भवर्णांशुकांतां त्वां चन्द्रकलांवतंसमकुटां चारुस्मितां भावये ॥ २ ॥
ईशानादिपदं शिवैकफलकं रत्नासनं ते शुभंपाद्यं चन्दनकुङ्कुमादिभरितैरर्घ्यंसुरत्नाक्षतैः ।शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितंकारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्पताम् ॥ ३ ॥
लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालक्षणेप्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।गोक्षीरैरपिनारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैःस्नानं देवि विधेहि मङ्गलकरैर्गाङ्गेयकुम्भोद्धृतैः ॥ ४ ॥
ह्रीङ्काराङ्कितमन्त्रलक्षिततनो हेमाचलात्सञ्चितै-रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् ।मुक्तासन्त[त]यज्ञसूत्रममलं सौवर्णतन्तूद्भवंदत्तं देवि धिया मया तदखिलं सन्तुष्टये कल्पताम् ॥ ५ ॥
हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलांहिन्तालद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे ।मञ्जीरे मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिंनासामौक्तिकमङ्गुलीयकटकान् काञ्चीमपि स्वीकुरु ॥ ६ ॥
सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितंकस्तूरीतिलकं च फालफलके गोरोचनापत्रके ।गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितंकण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७ ॥
कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः ।केतक्या करवीरकैर्बहुविधैः कृत्वा स्रजो मालिकांसङ्कल्पेन समर्पयामि वरदे त्वत्प्रीतये कल्पताम् ॥ ८ ॥
हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलेयैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् ।तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा-ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९ ॥
लक्ष्मीरुज्ज्वलयामि रत्ननिवहैर्भादन्तुरे मन्दिरेमालारूपविलम्बितैर्मणिमयैः स्तम्भेषु सम्भावितैः ।रत्नैर्हाटकपुत्रिकाकरगतैर्गव्यैर्घृतैर्वर्त्तिभिःदिव्यैर्दीपगणैर्धिया गिरिसुते त्वत्प्रीतये कल्पताम् ॥ १० ॥
ह्रीङ्कारेश्वरि तप्तहाटककृतस्थालीसहस्त्रैर्भृतंदिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तव ।दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितंमाषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११ ॥
सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैःपूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।मुक्तापूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैःपूर्णारत्नकलाचिका तव मुदे न्यस्ता पुरस्ताद्रमे ॥ १२ ॥
कन्याभिः कमनीयकान्तिभिरलंङ्कारामलाभिः सदापात्रीमौक्तिकचित्रवर्तिविलसत्कर्पूरदीपालिभिः ।तत्तत्तालमृदङ्गनादसहितं नृत्यत्पदाम्भोरुहंमन्त्राराधनपूर्वकं सुनिहितं नीराजनं गृह्यताम् ॥ १३ ॥
लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं नु धत्ते सदाहीन्द्राणी च रतिश्च चामरवरौ धत्ते स्वयं भारती ।वीणामेणविलोचनाः सुमनसां नृत्यन्ति सद्रागव-द्भावैरिङ्गितसाक्षिकैः स्फुटलसन्मातस्तदालोक्यताम् ॥ १४ ॥
ह्रीङ्कारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि-र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।संलापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तु मेसंवेशो नमनासहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ १५ ॥
श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसासन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलस्याचिरात् ।चित्ताम्भोरुहमण्टपे गिरिसुता नृत्तं विधत्ते सदावाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६ ॥
॥ इति श्रीपार्वतीमानसस्तोत्रं सम्पूर्णम् ॥