श्रीनृसिंहपञ्चरत्नम्

Click on words to see what they mean.

घटिकाचलमालयमादधताशरणागतरक्षणमाचरता ।करुणाकलितेन जगत्पतिनान विना मम याति मुदं हृदयम् ॥ १ ॥
वसतिं कुरुषे घटिकाद्रिवरंहृदयं च मदीयमदस्सदय ।नरसिंह विहाय विभो कपटंवद कुत्र मनो भवतो रमते ॥ २ ॥
घटिकाचलवासिनमीशमजंसततं स्मरतां क्व सतामशुभम् ।यदि कोऽपि भवेदशुभस्य लवोरुचिराशिरुदेष्यति पाशि दिशि ॥ ३ ॥
बहवोऽवतरा विलसन्तु मधुंद्विषतो निजविग्रहतोऽप्यधिकम् ।घटिकागिरिराड्वसतौ नृहरौकरुणावति मे रमते हृदयम् ॥ ४ ॥
चरणागतान्परमसात्त्विकानृषीन्करुणावलोकनिकरेण लालयन् ।घटिकाद्रिसीमनि नृसिंहविग्रहोजगतां पतिर्वसति वासवार्चितः ॥ ५ ॥
॥ श्रीनृसिंहपञ्चरत्नं समाप्तम् ॥