श्रीमहादेवस्तुतिः

Click Settings to choose another script or language.
रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे ।कपर्दिने करालाय हर्यक्ष्णे वरदाय च ॥ १ ॥
तृष्णे(?)पूष्णे दशभिदे देवानामधिपाय च ।क्षेम्यायहरिनेत्राय स्थाणवे पुरुषाय च ॥ २ ॥
हरिकेशाय मुण्डाय क्रोधायोत्तारणाय च ।भास्वराय सुतीर्थाय देवदेवाय रंहसे ॥ ३ ॥
उष्णीषिणे सुवक्त्राय पशुहस्ताय पार्षिणे ।हिरण्यबाहवे राजन्योग्राय पतये दिशाम् ॥ ४ ॥
पशूनां पतये चैव भूतानां पतये नमः ।वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ॥ ५ ॥
महात्मने चानङ्गाय सर्वाङ्गाय प्रमाथिने ।तथा रुद्राणिपतये पृथवे कृत्तिवाससे ॥ ६ ॥
कपालभूषिणे नित्यं सुवर्णमकुटाय च ।महादेवाय कृष्णाय त्र्यम्बकाय हराय च ॥ ७ ॥
क्रोधनायानृशंसाय मृत्यवे बाहुशालिने ।दण्डिने दृप्ततपसे तथैवाक्रूरकर्मिणे ॥ ८ ॥
सहस्रशिरसे चैव सहस्रचरणाय च ।विरूपाय सुरूपाय महारूपाय दंष्ट्रिणे ॥ ९ ॥
पिनाकिनं महादेवं महाभोगिनमव्ययम् ।त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् ॥ १० ॥
त्रिपुरघ्नं त्रिणयनं त्रिलोकेशं महौजसम् ।प्रभवं सर्वभूतानां धातारं धरणीधरम् ॥ ११ ॥
ईशानं शङ्करं शर्वं शिवं विश्वेश्वरं भवम् ।उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ॥ १२ ॥
विरूपाक्षं दशभुजं विष्यद्गङ्गं वृषध्वजम् ।उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम् ॥ १३ ॥
शितिकण्ठमजं शुभ्रं पृथं विधुहरं हरम् ।विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥ १४ ॥
प्रणम्य शिरसा देवं नागाङ्गदधरं हरम् ।शरण्यं शरणं यामि महादेवं चतुर्मुखम् ॥ १५ ॥
विरोचमानं वपुषा दिव्याभरणभूषितम् ।अनाद्यन्तमजं शम्भुं सर्वव्यापिनमीश्वरम् ॥ १६ ॥
निस्त्रैगुण्यं निरुद्योगं निर्मलं निधिमोजसाम् ।प्रणम्य प्राञ्जलिः शर्वं प्रयामि शरणं हरम् ॥ १७ ॥
निष्कलं निर्मलं नित्यमकारणमलेपनम् ।अध्यात्मवेदमासाद्य प्रयामि शरणं मुहुः ॥ १८ ॥
यस्य नित्यं विदुः स्थानं मोक्षमध्यात्मचिन्तकाः ।योगीशं तत्त्वमार्गस्थाः कैवल्यपदमक्षरम् ॥ १९ ॥
यं विदुः सङ्गनिर्मुक्ताः सामान्यं समदर्शिनः ।तं प्रपद्ये जगद्योनिमयोनिं निर्गुणात्मकम् ॥ २० ॥
असृजद्यस्तु भूतादीन् सप्तलोकान् सनातनान् ।स्थितः सत्योपरि स्थाणुं तं प्रपद्ये सनातनम् ॥ २१ ॥
भक्तानां सुलभं तं तु दुर्लभं दूरपातिनाम् ।अदूरस्थममुं देवं प्रकृतेः परतः स्थितम् ।नमामि सर्वलोकस्थं व्रजामि शरणं शिवम् ॥ २२ ॥
॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि संवर्तमरुत्तसंवादे मञ्जवद्गिरिवासमहादेवस्तुतिर्नाम सप्तमाध्यायः सम्पूर्णः ॥