श्रीकृष्णमङ्गलम्

Click Settings to choose another script or language.
मङ्गलं बालकृष्णाय दिव्यलीलाय मङ्गलम् ।मङ्गलं नीलवर्णाय मातृमान्याय मङ्गलम् ॥ १ ॥
मङ्गलं रुक्मिणीशाय जगदीशाय मङ्गलम् ।मङ्गलं यदुनाथाय दीननाथाय मङ्गलम् ॥ २ ॥
मङ्गलं देवदेवाय वासुदेवाय मङ्गलम् ।मङ्गलं नन्दपुत्राय सदानन्दाय मङ्गलम् ॥ ३ ॥
मङ्गलं पूतनाहन्त्रे लीलामर्त्याय मङ्गलम् ।मङ्गलं शकटच्छेत्रे पद्मपादाय मङ्गलम् ॥ ४ ॥
मङ्गलं वत्सपालाय विश्वपालाय मङ्गलम् ।मङ्गलं योगिमृग्याय गोपमित्राय मङ्गलम् ॥ ५ ॥
मङ्गलं बालगोपाय ब्रह्मविद्याय मङ्गलम् ।मङ्गलं कमलाभर्त्रे गोपीकान्ताय मङ्गलम् ॥ ६ ॥
मङ्गलं मातृबद्धाय जडघ्नायास्तु मङ्गलम् ।मङ्गलं क्रीडते स्त्रीभिः कुन्दारूढाय मङ्गलम् ॥ ७ ॥
मङ्गलं द्विषते क्रूरान् प्रियाकराय मङ्गलम् ।मङ्गलं वल्लवीभर्त्रे कंसघ्नायास्तु मङ्गलम् ॥ ८ ॥
मङ्गलं प्रीतभक्ताय विद्यावासाय मङ्गलम् ।मङ्गलं मागधजिते द्वारकेशाय मङ्गलम् ॥ ९ ॥
मङ्गलं पार्थसुहृदे जितदैत्याय मङ्गलम् ।मङ्गलं रुक्मिणीजाने रुक्मिणीशाय मङ्गलम् ॥ १० ॥
मङ्गलं नैकरूपाय नरदैत्याय मङ्गलम् ।पुत्रिणे नित्यरूपाय ब्रह्माचार्याय मङ्गलम् ॥ ११ ॥
मङ्गलं द्रौपदीड्याय मानदायास्तु मङ्गलम् ।मङ्गलं प्रियभक्ताय भक्तपालाय मङ्गलम् ॥ १२ ॥
मङ्गलं दिशते कामान् विप्रप्रार्थ्याय मङ्गलम् ।मङ्गलं[शिष्टपालाय]भारघ्नायास्तु मङ्गलम् ॥ १३ ॥
मङ्गलं मायिनेऽमायसारथ्यायास्तु मङ्गलम् ।मङ्गलं पूर्णरूपाय गीताचार्याय मङ्गलम् ॥ १४ ॥
मङ्गलं विश्वरूपाय योगिध्येयाय मङ्गलम् ।मङ्गलं विश्वगुरवे कृपावासाय मङ्गलम् ॥ १५ ॥
मङ्गलं ज्ञानरूपाय सर्वाभिज्ञाय मङ्गलम् ।मङ्गलं सर्वशक्ताय महासत्त्वाय मङ्गलम् ॥ १६ ॥
मङ्गलं दिव्यवीर्याय माहैश्वर्याय मङ्गलम् ।मङ्गलं ते[ऽच्युता]य सत्कुलत्राणाय मङ्गलम् ॥ १७ ॥
॥ इति श्रीकृष्णमङ्गलं सम्पूर्णम् ॥