श्रीकामाक्षीस्तोत्रम्

Click Settings to choose another script or language.
काञ्चीनूपुररत्नकङ्कणलसत्केयूरहारोज्ज्वलांकाश्मीरारुणकञ्चुकाञ्चितकुचां कस्तूरिकाचर्चिताम् ।कल्हाराञ्चितकल्पकोज्ज्वलमुखीं कारुण्यकल्लोलिनींकामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ १ ॥
कामारातिमनःप्रियां कमलभूसेव्यां रमाराधितांकन्दर्पाधिकदर्पदानविलसत्सौन्दर्यदीपाङ्कुराम् ।कीरालापविनोदिनीं भगवतीं काम्यप्रदानव्रतांकामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ २ ॥
गन्धर्वामरसिद्धचारणवधूद्गेयापदानाञ्चितांगौरीं कुङ्कुमपङ्कपङ्कितकुचद्वन्द्वाभिरामां शुभाम् ।गम्भीरस्मितविभ्रमाङ्कितमुखीं गङ्गाधरालिङ्गितांकामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ३ ॥
विष्णुब्रह्ममुखामरेन्द्रपरिषत्कोटीरपीठस्थलांलाक्षारञ्जितपादपद्मयुगलां राकेन्दुबिम्बाननाम् ।वेदान्तागमवेद्यचिन्त्यचरितां विद्वज्जनैरादृतांकामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ४ ॥
माकन्दद्रुममूलदेशमहिते माणिक्यसिंहासनेदिव्यां दीपितहेमकान्तिविलसद्वस्त्रावृतां तां शुभाम् ।दिव्याकल्पितदिव्यदेहभरितां दृष्टिप्रमोदावहांकामाक्षी कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ५ ॥
आधारादिसमस्तचक्रनिलयामाद्यन्तशून्यामुमा-माकाशादिसमस्तभूतनिवहाकारामशेषात्मिकाम् ।योगीन्द्रैरति योगिनीशतगणैराराधितामम्बिकांकामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ६ ॥
ह्रींकारप्रणवात्मिकां प्रणमतां श्रीपूर्वविद्यामयींऐं श्रीं सौं रुचिमन्त्रमूर्तिनिवहाकारामशेषात्मिकाम् ।ब्रह्मानन्दरसानुभूतिमहितां ब्रह्मप्रियवादिनींकामाक्षीं कलयामि कल्पलतिकां काञ्चिपुरीदेवताम् ॥ ७ ॥
सिद्धानन्दजनस्य चिन्मयसुखाकारां महायोगिभिःमायाविश्वविमोहिनीं मधुमतींध्येयां शुभांब्राह्मणीम् ।ध्येयां किन्नरसिद्धचारणवधूद्गेयां सदा योगिभिःकामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ८ ॥
कामारिकामां कमलासनस्थांकाम्यप्रदां कङ्कणचूडहस्ताम् ।काञ्चीनिवासां कनकप्रभासांकामाक्षिदेवी कलयामि चित्ते ॥ ९ ॥
॥ इति श्रीकामाक्षीस्तोत्रं सम्पूर्णम् ॥