श्री कल्याणस्तवराजः

Click Settings to choose another script or language.
कल्याणवृष्टिभिरिवामृतपूरिताभि-र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।सेवाभिरम्ब तव पादसरोजमूलेनाकारि किं मनसि भक्तिमतां जनानाम् ॥ १ ॥
एतावदेव जननि स्पृहणीयमास्तेत्वद्वन्दनेन सलिलस्थगिते च नेत्रे ।सान्निध्यमुद्यदरुणायतलोचनस्यत्वद्विग्रहस्य सुधया परयाप्लुतस्य ॥ २ ॥
ईशित्वभावकलुषाः कति नाम सन्तिब्रह्मादयः प्रतियुगं प्रलयाभिभूताः ।एकः स एव जननि स्थिरसिद्धिरास्तेयः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३ ॥
लब्ध्वा सकृत् त्रिपुरसुन्दरि तावकीनंकारुण्यकन्दलितकान्तिभरं कटाक्षम् ।कन्दर्पभावसुभगास्त्वयि भक्तिभाजःसंमोहयन्ति तरुणीर्भुवनत्रयस्य ॥ ४ ॥
ह्रींकारमेव तव नाम गृणन्ति वेदामातस्त्रिकोणनिलये त्रिपुरे त्रिणेत्रे ।यत्सुस्पृशो यमभटाभिभवं विहायदीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५ ॥
हन्तुः पुरामधिगलं परिघूर्णमानःक्रूरः कथं नु भविता गरलस्य वेगः ।नाश्वासनाय यदि मातरिदं त्वदर्धंदेहस्य शश्वदमृताप्लवशीतलस्य ॥ ६ ॥
सर्वज्ञतां सदसि वाक्पटुतां प्रसूतेदेवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।किञ्च स्फुरन्मकुटमुज्ज्वलमातपत्रंद्वे चामरे च महतीं वसुधां ददाति ॥ ७ ॥
कल्पद्रुमैरभिमतप्रतिपादनेषुकारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।आलोकय त्रिपुरसुन्दरि मामनाथंत्वय्येव भक्तिभरितं त्वयि दत्तदृष्टिम् ॥ ८ ॥
हन्तेतरेष्वपि मनांसि निधाय चान्येभक्तिं वहन्ति किल पामरदैवतेषु ।त्वमेव देवि मनसाहमनुस्मरामित्वामेव नौमि शरणं जननि त्वमेव ॥ ९ ॥
लक्षेषु सत्स्वपि तवाक्षिविलोकनानाम्आलोकय त्रिपुरसुन्दरि मां कथञ्चित् ।नूनं मया तु सदृशः करुणैकपात्रंजातो जनिष्यति जनो न तु जायमानः ॥ १० ॥
ह्रीं ह्रीमिति प्रतिपदं जपतां तवाख्यांकिं नाम दुर्लभमिह त्रिपुराधिवासे ।मालाकिरीटमदवारणमानिनीयतं सेवते वसुमती स्वयमेव लक्ष्मीः ॥ ११ ॥
सम्पत्कराणि सकलेन्द्रियनन्दनानिसाम्राज्यदानकुशलानि सरोरुहाक्षि ।त्वल्लोचनानि दुरितौघनिवारणानिमामेव मातरनिशं कलयन्तु मान्यम् ॥ १२ ॥
कल्पोपसंहरणकल्पितताण्डवस्यदेवस्य खण्डपरशोः परभैरवस्य ।पाशाङ्कुशैक्षवशरासनपुष्पबाणासा साक्षिणी विजयते तव मूर्तिरेका ॥ १३ ॥
लग्नं सदा भवतु मातरिदं त्वदीयंतेजः परं बहुलकुङ्कुमपङ्कशोणम् ।भास्वत्किरीटममृतांशुकलावतंसंमध्येत्रिकोणनिलयं परमामृतार्द्रम् ॥ १४ ॥
ह्रींकारमेव तव नाम तदेकरूपंकिं नाम सुन्दरि सरोजनिवासशीले ।त्वत्तेजसा परिणतं विदधाति भूत-सर्गं तनोति सरसीरुहसंभवोऽयम् ॥ १५ ॥
ह्रींकारत्रयसंपुटेन महता मन्त्रेण सन्दीपितंस्तोत्रं यः प्रतिवासरं तव पुरो ह्येतज्जपेन्मानवः ।तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीः स्थिरस्थायिनीवाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६ ॥
कुवलयदलनीलं बर्बरस्निग्धकेशंपृथुतरकुचभारं क्रान्तकान्तावलग्नम् ।किमिह बहुभिरुक्तैः त्वत्स्वरूपं परं तत्सकलभुवनमातः सन्ततं सन्निधत्ताम् ॥ १७ ॥
माणिक्यमांगलिकसूत्रितपालिकेनमन्दस्मितेनवदनारुणपङ्कजेन ।कालान्तदीर्घमणिमङ्गलसूत्रकण्ठी-मम्बां विशालनयनां मनसा स्मरामि ॥ १८ ॥
॥ इति मन्मथेन विरचितः श्रीकल्याणस्तवराजः सम्पूर्णः ॥