श्रीकालहस्तीश्वरस्तोत्रम्

Click Settings to choose another script or language.
महेश्वरं महोन्नतं महेश्वरं सदानम-द्गणेश्वरं गुणान्वितं गणेश्वरं जगन्नुतम् ।अनीश्वरं वृषाश्वरंहसाश्वरुद्रगामिनं(?)सदा भजामि कालहस्तिसाम्बमूर्तिमीश्वरम् ॥ १॥
निटालविस्फुटैकटक्तटालवह्निचिच्छटा-लसद्ध्वनिप्रकृज्जटालनिष्टहैमनम् ।घटीभवादिमौ निहृत्कुटीभवत्पदंविभुंसदा भजामि कालहस्तिसाम्बमूर्तिमीश्वरम् ॥ २ ॥
घनाघनादियज्ञभुग्घनाघनप्रचारकृद्-द्युनाघनामहस्सुहृद्दृढासुहृद्धनुस्स्वनम् ।घनाघनव्यपेटिकाघनाघनप्रभञ्जनंसदा भजामि कालहास्तिसाम्बमूर्तिमीश्वरम् ॥ ३ ॥
जटाकुटीरधन्यधुन्यभङ्गभङ्गसङ्घटा-घुमंघुमंधुमंघुमद्ध्वनिध्वनद्दरीस्फुटम् ।कटीतटीघटीकृतोत्कटाजिनं ककुप्पटंसदा भजामि कालहस्तिसाम्बमूर्तिमीश्वरम् ॥ ४ ॥
सुधाशनाधिराट्पुरीसुगह्वरीजमञ्जरी-स्फुरन्मरन्दनिर्झरीधुराधुरीणगीर्गणम् ।विराट्तुरङ्गमार्गणं विशेषविष्णुमार्गणं(?)सदा भजामि कालहस्तिसाम्बमूर्तिमीश्वरम् ॥ ५॥
॥ इति श्रीकालहस्तीश्वरस्तोत्रं सम्पूर्णम् ॥