श्रीगोपालस्तोत्रम्

Click Settings to choose another script or language.
वक्षस्स्थले मणिमयाभरणाभिरामेकल्याणकल्पलतिकां कमलां वहन्तम् ।वक्त्रे दधानमतिसुन्दरमन्दहासंसञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ १ ॥
वेदान्तमस्तकगिरां प्रथमाभिधेयंगोपालबालवनिताभवने निवेयम् ।नन्दाङ्गनानयनपङ्कजभागधेयंसञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ २ ॥
काञ्चीकलापकमनीयकटिप्रदेशंकान्तासहस्रकुचमण्डलमण्डनीयम् ।कामं विशालनयनं करुणैकसिन्धुंसञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ३ ॥
आजानुदीर्घभुजमञ्चितकञ्जनाभम्आलोलनेत्रमसितोत्पलकर्णपूरम् ।आरूढपक्षिपतिमाश्रितकालमेघंसञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ४ ॥
फुल्लातसीकुसुमकान्तिमुषं कुमारंसौन्दर्यशेवधिमुदारगुणाभिरामम् ।लक्ष्म्यालयं कलितकौस्तुभमम्बुजाक्षंसञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ५ ॥
हस्तारविन्दयुगलीधृतशङ्खचक्रंपीताम्बरं मकरकुण्डलदीप्तगण्डम् ।हाराभिराममभिरामकराङ्गुलीयंसञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ६ ॥
कन्दर्पकान्तिमरुणाधरमायताक्षंकस्तूरिकातिलकशोभितफालभागम् ।पूर्णेन्दुबिम्बवदनं मधुरावलोकंसञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ७ ॥
बालं बालं बालमेव स्मरामःनीलं नीलं नीलमालोकयामः ।गोपं गोपं गोपमेवाश्रयामःबालं नीलं गोपवेषं भजामः ॥ ८ ॥
नीलालकावृतमुखं तव कुण्डलश्री -गण्डस्थलाधरसुधां सदयावलोकम् ।दत्ताभयं च भुजदण्डयुगं विलोक्यवक्षः श्रियो विहरणं च भवाम दासाः ॥ ९॥
॥ इति श्रीगोपालस्तोत्रं सम्पूर्णम् ॥