श्रीगौरीदशकम्

Click Settings to choose another script or language.
लीलारब्धस्थापितलुप्ताखिललोकांलोकातीतैर्योगिभिरन्तःस्थिरमृग्याम् ।बालादित्यश्रेणिसमानद्युतिपुञ्जांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १ ॥
आशापाशक्लेशविनाशं विदधानांपादाम्भोजध्यानपराणां पुरुषाणाम् ।ईशामीशार्धाङ्गशरीरामभिरामांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २ ॥
नानाकारैः शक्तिकदम्बैर्भुवनानिव्याप्य स्वैरं क्रीडति येयं स्वयमेका ।कल्याणीं तां कल्पलतामानतिभाजांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३ ॥
चन्द्रापीडानन्दितमन्दस्मितवक्त्रांचन्द्रापीडालङ्कृतलीलालकभाराम् ।इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ४ ॥
मूलाधारादुत्थितवक्त्रां विधिरन्ध्रांसौरं चान्द्रं व्याप्य विहाय ज्वलिताङ्गीम् ।येयं सूक्ष्मासूक्ष्मतनुःतां तनुमध्यांगौरीमम्बाम्बुरुहाक्षीमहमीडे ॥ ५ ॥
यस्याः कुक्षौ लीनमखण्डं जगदण्डंभूयो भूयः प्रादुरभूदक्षतमेव ।पत्यासार्धं राजतशैले विहरन्तींगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ६ ॥
यस्यामेतत् प्रोतमशेषं मणिमाला-सूत्रे यद्वत् क्वापि च रत्नं निखिलं च ।तामध्यात्मज्ञानपदव्या गमनीयांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७ ॥
आदिक्षान्तामक्षरमूर्त्या विलसन्तींभूते भूते भूतकदम्बप्रसवित्रीम् ।शश्वद्ब्रह्मानन्दमयीं तां तनुमध्यांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८ ॥
नित्यः शुद्धो निष्कल एको जगदीशःसाक्षी यस्याः सर्गविधौ संसरणे च ।विश्वत्राणक्रीडनलीलांभवपत्नींगौरीमन्वामम्बुरुहाक्षीमहमीडे ॥ ९ ॥
प्रातःकाले भावविशुद्ध्यै प्रणिधाना-द्भक्त्या नित्यं जप्यति गौरीशकं यः ।वाचां सिद्धिं सद्धनमुक्ती शिवभक्तिंतस्यावश्यं पर्वतपुत्री विदधाति ॥ १० ॥
प्रत्याहारध्यानसमाधिस्थितिभाजांनित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् ।सत्यज्ञानानन्दमयीं तां तनुमध्यांगौरीमम्बाम्बुरुहाक्षी महमीडे ॥ ११ ॥
॥ इति श्रीगौरीदशकं सम्पूर्णम् ॥