श्रीगणेशाष्टकम्

Click Settings to choose another script or language.
एकदन्तं महाकायं तप्तकाञ्चनसंनिभम् ।लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १ ॥
मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥ २ ॥
चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम् ।कामरूपधरं देवं वन्देऽहं गणनायकम् ॥ ३ ॥
मूषिकोत्तममारुह्य देवासुरमहाहवे ।योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ ४ ॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् ।पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥ ५ ॥
यक्षकिन्नरगन्धर्वसिद्धविद्याधरैः सदा ।स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥ ६ ॥
अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् ।भक्तप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ७ ॥
सर्वविघ्नकरं देवं सर्वविघ्नविवर्जितम् ।सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ ८ ॥
गणाष्टकमिदं पुण्यं यः पठेत् सततं नरः ।सिध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥ ९ ॥
॥ इति श्रीगणेशाष्टकं सम्पूर्णम् ॥