श्रीदण्डायुधपाण्यष्टकम्
Click Settings to choose another script or language.
[कुम्भयोरुभ]योरपि ।
सभारदण्डं वहति कावडीत्युच्यते हि सः ॥ १ ॥
सर्वलोकप्रसिद्धा[सा कावडी द्विवि]धा मता ।
तयोरिहैका गाङ्गी स्यादन्या स्कान्दी प्रकीर्तिता ॥ २ ॥
[केवलं]कुंभयुगलमंसदण्डस्य विभ्रतः ।
देवतानामसान्निध्यात् कावडीत्वं न सिध्यति ॥ ३ ॥
कामादिदोषहन्तृत्वाद्वस्तुतत्त्वप्रकाशनात्
डीयमानगतेर्हेतोः कावडीत्य[भिधीय]ते ॥ ४ ॥
गन्धपुष्पाक्षतैर्धूपदीपाद्यैरुपचारकैः ।
कावड्यौ ते[जनैः स]म्यक् पूजनीये विशेषतः ॥ ५ ॥
गाङ्गी सा कावडी रामनाथलिङ्गाभिषेचिनी ।
स्कान्दी तु [कावडी] दण्डायुधपाण्यभिषेचिनी ॥ ६ ॥