श्रीदण्डायुधपाण्यष्टकम्

Click Settings to choose another script or language.
यः पूर्वं शिवशक्तिनामकगिरिद्वन्द्वे हिडिम्बासुरे-णानीतेफलिनीस्थलान्तरगते कौमारवेषोज्ज्वलः ।आविर्भूय घटोद्भवाय मुनये भूयो वरान् प्रादिशत्श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ १ ॥
श्रीमत्पुष्यरथोत्सवेऽन्नमधुदुग्धाद्यैः पदार्थोत्तमैःनानादेशसमागतैरगणितैर्यःकावडीसंभृतैः ।भक्तौघैरभिषेचितो बहुवरांस्तेभ्यो ददात्यादरात्श्रीदण्डायुधपाणिरात्तकरुणः पायादपायत्स माम् ॥ २ ॥
नानादिग्भ्य उपागता निजमहावेशान्विताः सुन्दरीःतासामेत्य निशासु यः सुमशरानन्दानुभूतिच्छलात् ।गोपीनां यदुनाथवन्निजपरानन्दं तनोति स्फुटंश्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ३ ॥
दुष्टानामिह भूतभाविभवतां दुर्मार्गसञ्चारिणांकष्टाहङ्कृतिजन्यकिल्बिषवशाच्छिष्टप्रविध्वंसिनाम् ।शिक्षार्थं निजपाणिनोद्वहति यो दण्डाभिधानायुधंश्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ४ ॥
पूर्वं तारकसंज्ञकं दितिसुतं यः शूरपद्मासुरंसिंहास्यं च निहत्य वासवमुखान् देवान् जुगोपाखिलान् ।श्रीवल्ल्या सहितश्च निस्तुलयशाः श्रीदेवसेन्या युतःश्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ५ ॥
यस्याङ्गस्थितरोमकूपनिकरे ब्रह्माण्डकोटिच्छटाःसौधाग्रस्थगवाक्षरन्ध्रविचरत्पीलूपमा एव ताः ।लक्ष्यन्ते यमिदृग्भिरात्मनि तथाभूतस्वविश्वाकृतिःश्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ६ ॥
[कुम्भयोरुभ]योरपि । सभारदण्डं वहति कावडीत्युच्यते हि सः ॥ १ ॥ सर्वलोकप्रसिद्धा[सा कावडी द्विवि]धा मता । तयोरिहैका गाङ्गी स्यादन्या स्कान्दी प्रकीर्तिता ॥ २ ॥ [केवलं]कुंभयुगलमंसदण्डस्य विभ्रतः । देवतानामसान्निध्यात् कावडीत्वं न सिध्यति ॥ ३ ॥ कामादिदोषहन्तृत्वाद्वस्तुतत्त्वप्रकाशनात् डीयमानगतेर्हेतोः कावडीत्य[भिधीय]ते ॥ ४ ॥ गन्धपुष्पाक्षतैर्धूपदीपाद्यैरुपचारकैः । कावड्यौ ते[जनैः स]म्यक् पूजनीये विशेषतः ॥ ५ ॥ गाङ्गी सा कावडी रामनाथलिङ्गाभिषेचिनी । स्कान्दी तु [कावडी] दण्डायुधपाण्यभिषेचिनी ॥ ६ ॥
सद्योजातमुखैश्च पञ्चवदनैः शम्भोः सहैकं मुखंपार्वत्या मिलितं विभाति सततं यद्वक्त्रषट्कात्मना ।तत्तादृक्च्छिवशक्त्य[भेदवि]षयव्यक्त्युज्ज्वलाङ्गं वहन्श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ७ ॥
सत्यं ज्ञानमनन्तमद्वयमिति श्रुत्यन्तवाक्योदितंयद् ब्रह्मास्ति तदेव यस्य[च विभोर्मू]र्तेः स्वरूपं विदुः ।योगीन्द्रा विमलाशया हृदि निजानन्दानुभूत्युन्नताःश्रीदण्डायुधपाणिरात्तकरुणः पायादापायात्स माम् ॥ ८ ॥
इदं श्रीफलिनीदण्डायुधपाण्यष्टकस्तवम् ।पठतामाशु सिध्यन्ति निखिलाश्च मनोरथाः ॥ ९ ॥
॥ इति श्रीदण्डायुधपाण्यष्टकं सम्पूर्णम् ॥
[प्रसिद्धिमवलं]बते । व्यवहारप्रसिद्धत्वात् संस्कृतप्राय एव सः ॥ ८ ॥ [इदंतु]कावडीशब्दतात्पर्यार्थनिरूपकम् । अष्टकं विदुषामस्तु [सन्तु]ष्ट्यै रसिकात्मनाम् ॥ ९ ॥