श्रीचिरञ्जीविरामायणम्

Click Settings to choose another script or language.
पायात् क्षीराब्धिशायी कमलभवनुतः कोसलेन्द्रस्य पुत्रोरामः सौमित्रियुक्तः कुशिकसुतगिरा ताटकाप्राणहारी ।यज्ञं निर्वर्त्य गङ्गासुचरितमुदितः पावयंस्तामहल्यांसीतामुद्वाह्य जित्वा पथि भृगुतनयं प्राप्य हर्षादयोध्याम् ॥ १ ॥
श्रीरामं नौमि कैकेय्यभिलषितवरात् खिन्नमालोक्य तातंतद्वाचा त्यक्तराज्यं झटिति वनगतं मैथिलीलक्ष्मणाभ्याम् ।स्वर्गस्थे राज्ञि शोकात् कृतनुतिभरतप्रार्थनात् पादुके स्वेदत्त्वास्मै तन्निवृत्त्या स्थितमनुजयुतं सेवितं चित्रकूटे ॥ २ ॥
हत्वारण्ये विराधं मुनिनिकरमुदे पञ्चवट्यामुषित्वावैरूप्यात् शूर्पणख्याःकुपितखरमुखान् ध्वंसयित्वार्धयामम् ।मारीचं मर्दयित्वा दशवदनहृतां तत्र सीतामदृष्ट्वादग्ध्वा क्रुद्धं कबन्धं शबरिवनितया पूजितं राममीडे ॥ ३ ॥
पम्पातीरे हनूमत्पटुतरवचनादृश्यमूकं च गत्वाकृत्वा सुग्रीवसख्यं निशितशरवरैः सप्तसालांश्च भित्त्वा ।हत्वा सुत्रामपुत्रं दिनकरजनुषस्तस्य राज्यं च दत्त्वातेनानीतैः कपीशैविचितसकलभूमण्डलं राममीडे ॥ ४ ॥
सेतुं बध्द्वा समुद्रे सकलबलयुतं रावणं कुम्भकर्णंहत्वा तत्पुत्रवर्गं तदनुजमभिषिच्याथ लङ्काधिनाथम् ।सीतां लब्ध्वाग्निशुद्धां सकलसुरनुतं पुष्पयानाधिरूढंसुग्रीवाद्यैरुपेतं रघुपतिमनिशं प्राप्तराज्यं नमामि ॥ ५ ॥
सकृदपि यदि रामेत्युच्चरन् यस्तु मर्त्यःसकलदुरितसङ्घैः संयुतो वापि नूनम् ।न निवसति स मातुर्गर्भवासी कदाचि-न्निवसति हरिलोके नास्ति सन्देहलेशः ॥ ६ ॥
॥ इति श्रीचिरञ्जीविरामायणं सम्पूर्णम् ॥