श्रीचिदम्बरपञ्चचामरस्तोत्रम्

Click Settings to choose another script or language.
कदम्बकाननप्रियं चिदम्बया विहारिणंमदेभकुम्भगुम्फितस्वडिम्भलालनोत्सुकम् ।सदम्भकामखण्डनं सदम्बुवाहिनीधरंहृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ १ ॥
समस्तभक्तपोषणस्वहस्तबद्धकङ्कणंप्रशस्तकीर्तिवैभवं निरस्तसज्जनापदम् ।करस्थमुक्तिसाधनं शिरःस्थचन्द्रमण्डनंहृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ २ ॥
जटाकिरीटमण्डितं निटाललोचनान्वितंपटीकृताष्टदिक्तटं पटीरपङ्कलेपनम् ।नटौघपूर्वभाविनं कुठारपाशधारिणंहृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ३ ॥
कुरङ्गशाबशोभितंचिरं गजाननार्चितंपुराङ्गानाविचारदं वराङ्गरागरञ्जितम् ।खराङ्गजातनाशकं तुरङ्गमीकृतागमंहृदम्बुजे जगद्गुरूं चिदम्बरं विभावये ॥ ४ ॥
अमन्दभाग्यभाजनं सुमन्दहाससन्मुखंसुमन्दमन्दगामिनीगिरीन्द्रकन्यकाधवम् ।शमं दमं दयालुताममन्दयन्तमात्मनोहृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ५ ॥
करीन्द्रचर्मवाससं गिरीन्द्रचापधारिणंसुरेन्द्रमुख्यपूजितं खगेन्द्रवाहनप्रियम् ।अहीन्द्रभूषणोज्ज्वलं नगेन्द्रजाविलासिनंहृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ६ ॥
मलापहारिणीतटे सदा विलासकारिणंबलारिशापभञ्जनं ललामरूपलोचनम् ।लसत्फणीन्द्रहारिणं ज्वलत्त्रिशूलधारिणंहृदम्बुजे जगद्गुरूं चिदम्बरं विभावये ॥ ७ ॥
शशाङ्कभानुवीतिहोत्रराजितत्रिलोचनंविशालवक्षसं सुदीर्घबाहुदण्डमण्डितम् ।दिगम्बरोल्लसद्वपुर्धरं धरारथान्वितंहृदम्बुजे जगद्गुरूं चिदम्बरं विभावये ॥ ८ ॥
सदन्तरङ्गसज्जनौघपापसङ्घनाशनेमदान्धयुक्तदुर्जनालिशिक्षणे विचक्षणः ।चिदम्बराख्यसद्गुरुस्वरूपमेत्य भूतलेसदाशिवो विराजते सदा मुदान्वितो हरः ॥ ९ ॥
चिदम्बराख्यसद्गुरोरिदं सदा विलासिनंनुदा लिखन्ति ये सकृत् सदोपमानमष्टकम् ।सदा वशे[से]त्तदालये हरिप्रिया तदाननेविधिप्रिया च निश्चला जगद्गुरोरनुग्रहात् ॥ १० ॥
॥ इति श्रीचिदम्बरपञ्चचामरस्तोत्रं सम्पूर्णम् ॥