श्रीचन्द्रमौलिपञ्चकम् (२)

Click Settings to choose another script or language.
शिवाननारविन्दसन्मिलिन्दभावभाङ्मनो-विनोदिने दिनेशकोटिकोटिदीप्ततेजसे ।स्वसेवलोकसादरावलोकनैकवर्तिनेनमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ १ ॥
जटातटीलुठद्वियद्धुनीधलद्धलध्वन-द्घनौघगर्जितोत्थबुद्धिसंभ्रमच्छिखण्डिने ।विखण्डितारिमण्डलप्रचण्डदोस्त्रिशूलिनेनमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ २ ॥
प्रहृष्टहृष्टतुष्टपुष्टदिष्टविष्टपाय सं-नमद्विशिष्टभक्तविष्टराप्तयेऽष्टमूर्तये(?)।विदायिने धनाधिनाथसाधुसख्यदायिनेनमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ३ ॥
अखर्वगर्वदोर्विजृम्भदम्भकुम्भदानव-च्छिदासदाध्वनत्पिनाकहारिणे विहारिणे ।सुहृत्सुहृत्सुहृत्सुहृत्सुहृत्स्मयापहारिणेनमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ४ ॥
अखण्डदण्डबाहुदण्डदण्डितोग्रडिण्डिम-प्रधिं धिमिंधिमिंधिमिध्वनिक्रमोत्थताण्डवम् ।अखण्डवैभवाहिनाथमण्डितं चिदम्बरंनमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ५ ॥
॥ इति श्रीचन्द्रमौलिपनकं सम्पूर्णम् ॥