श्रीचन्द्रमौलिपञ्चकम् (१)

Click Settings to choose another script or language.
सदा मुदा मदीयके मनः सरोरुहान्तरेविहारिणेऽघसञ्चयं विदारिणे चिदात्मने ।निरस्ततोयतोयमुन्निकायकायशोभितेनमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ १ ॥
नमो नमोऽष्टमूर्तये नमो नमानकीर्तयेनमो नमो महात्मने नमः शुभप्रदायिने ।नमो दयार्द्रचेतसे नमोऽस्तु कृत्तिवाससेनमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ २ ॥
पितामहाद्यवेद्यकस्वभावकेवलाय तेसमस्तदेववासवादिपूजिताङ्घ्रिशोभिने ।भवाय शक्ररत्नसद्गलप्रभाय शूलिनेनमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ३ ॥
शिवोऽहमस्मि भावये शिवं शिवेन रक्षितःशिवस्य पूर्णवर्चसः समर्चये पदद्वयम् ।शिवात्परं न विद्यते शिवे जगत् प्रवर्तयेनमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ४ ॥
मरन्दतुन्दिलारविन्दसुन्दरस्मिताननो-न्मिलन्मिलिन्दबृन्दनीलनीलकुन्तलां शिवाम् ।कलाकलापसारिणीं शिवां च वीक्ष्य तोषिणेनमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ५ ॥
॥ इति श्रीचन्द्रमौलिपञ्चकं सम्पूर्णम् ॥