श्रीचक्रोपनिषत्

ॐ अथाह वै श्रीचक्रे नित्याक्रान्ते ।
गौरीर्मियाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥
इति प्रत्यहं ससङ्गति सहस्रं कलशान् स्थाप्य शतं वा नव वा सर्वाभावे पूर्णाभिषेकं चरेत् । अष्टाष्टकं चरेत् । पञ्चपञ्चकं वा चरेत् । सर्वाभावे शतं पूजयेत् । अमृतत्वं गच्छति । श्रीचक्रन्यासं चरेत् । स व्यापकत्वं गच्छति । मूलाधाराद्बिलान्तं क्रमेण न्यसेत् । स्वराट्चक्रं विराट्चकं सम्राट्चकं विराज्यचक्रं विश्वरूपचक्रं शत्रुजिच्चकं क्रमेण सप्तकलामयं न्यसेत् । स शिवो भवेत् । स कविर्भवेत् । स सर्वसिद्धीश्वरो भवेत् । स नवनाथाधिष्ठितोभवेत् । स भुवनाराधितो भवेत् । निर्विकल्पेन मनसा यश्चरेच्छक्तिदेहे स कालीरूपो भवेत् । विना शक्तिं न मोक्षो न ज्ञानं न सत्यं न धर्मो न तपो न हरिर्न हरो न विरिञ्चिः । सर्वं शक्तियुक्तं भवेत् । तत्संयोगात् सिद्धीश्वरो भवेत् । इति शिवम् ॥
इत्याथर्वणे सौभाग्यकाण्डे श्रीचक्रोपनिषत् समाप्ता

Settings