शिवसङ्कल्पोपनिषत् (शिवसङ्कल्पमन्त्राः)

येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् ।येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥ १ ॥
येन कर्माणि प्रचरन्ति धीरा यतो वाचा मनसा चारु यन्ति ।यत्संमितमनु संयन्ति प्राणिनस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ २ ॥
येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३ ॥
यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ।यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥
सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिन इव ।हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५ ॥
यस्मिन्नृचः साम यजूंषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः ।यस्मिंश्चित्तं सर्वमतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ६ ॥
यत्र षष्ठं त्रिशतं सुवीरं यज्ञस्य गुह्यं नवनावमाय्यम्[?]दश पञ्च त्रिंशतं यत्परं च तन्मे मनः शिवसङ्कल्पमस्तु ॥ ७ ॥
यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ।दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ८ ॥
येन द्यौः पृथिवी चान्तरिक्षं च ये पर्वताः प्रदिशो दिशश्च ।येनेदं जगद्व्याप्तं प्रजानां तन्मे मनः विसङ्कल्पमस्तु ॥ ९ ॥
येनेदं विश्वं जगतो बभूव ये देवा अपि महतो जातवेदाः ।तदेवाग्निस्तमसो ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १० ॥
ये मनो हृदयं ये च देवा ये दिव्या आपो ये सूर्यरश्मिः ।ते श्रोत्रे चक्षुषी सञ्चरन्तं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ११ ॥
अचिन्त्यं चाप्रमेयं च व्यक्ताव्यक्तपरं च यत् ।सूक्ष्मात्सूक्ष्मतरं ज्ञेयं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १२ ॥
एका च दश शतं च सहस्रं चायुतं चनियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च ।समुद्रश्च मध्यं चान्तश्च परार्धश्चतन्मे मनः शिवसङ्कल्पमस्तु ॥ १३ ॥
ये पञ्च पञ्चदश शतं सहस्रमयुतं न्यर्बुदं च ।तेऽग्निचित्येष्टकास्तं शरीरं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १४ ॥
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।यस्य योनिं परिपश्यन्ति धीरास्तन्मे मनः शिवसङ्कल्पमस्तु ॥१५ ॥
यस्येदं धीराः पुनन्ति कवयो ब्रह्माणमेतं त्वा वृणुत इन्दुम् ।स्थावरं जङ्गमं द्यौराकाशं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १६ ॥
परात् परतरं चैव यत्पराञ्चैव यत्परम् ।यत्परात्परतो ज्ञेयं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १७ ॥
परात् परतरो ब्रह्मा तत्परात् परतो हरिः ।तत्परात् परतोऽधीशस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ १८ ॥
या वेदादिषु गायत्री सर्वव्यापी महेश्वरी ।ऋग्यजुस्सामाथर्वैश्च तन्मे मनः शिवसङ्कल्पमस्तु ॥ १९ ॥
यो वै देवं महादेवं प्रणवं पुरुषोत्तमम् ।यः सर्वे सर्ववेदैश्च तन्मे मनः शिवसङ्कल्पमस्तु ॥ २० ॥
प्रयतः प्रणवोङ्कारं प्रणवं पुरुषोत्तमम् ।ओङ्कारं प्रणवात्मानं तन्मे मनः शिवसङ्कल्पमस्तु ॥ २१ ॥
योऽसौ सर्वेषु वेदेषु पठ्यते ह्यज ईश्वरः ।अकायो निर्गुणो ह्यात्मा तन्मे मनः शिवसङ्कल्पमस्तु ॥ २२ ॥
गोभिर्जुष्टं धनेन ह्यायुषा च बलेन च ।प्रजया पशुभिः पुष्कराक्षं तन्मे मनः शिवसङ्कल्पमस्तु ॥ २३ ॥
त्रियम्बकं यजामहेसुगन्धिं पुष्टिवर्धनम् ।उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात्तन्मे मनः शिवसङ्कल्पमस्तु ॥ २४ ॥
कैलासशिखरे रम्ये शङ्करस्य शिवालये ।देवतास्तत्र मोदन्ते तन्मे मनः शिवसङ्कल्पमस्तु ॥ २५ ॥
विश्वतश्चक्षुरुत विश्वतोमुखोविश्वतोहस्त उत विश्वतस्पात् ।संबाहुभ्यां नमति संपतत्रैर्द्यावापृथिवीजनयन् देव एकस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ २६ ॥
चतुरो वेदानधीयीत सर्वशास्त्रमयं विदुः ।इतिहासपुराणानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ २७ ॥
मा नो महान्तमुत मा नो अर्भकंमा न उक्षन्तमुत मा न उक्षितम् ।मा नो वधीः पितरं मोत मातरं प्रिया मा नःतनुवो रुद्र रीरिषस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ २८ ॥
मा नस्तोके तनयं मा न आयुषिमा नो गोषु मा नो अश्वेषु रीरिषः ।वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तःनमसा विधेम ते तन्मे मनः शिवसङ्कल्पमस्तु ॥ २९ ॥
ऋतं सत्यं परं ब्रह्मपुरुषं कृष्णपिङ्गळम् ।ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमःतन्मे मनः शिवसङ्कल्पमस्तु ॥ ३० ॥
कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे ।वोचेम शन्तमं हृदे ।सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तुतन्मे मनः शिवसङ्कल्पमस्तु ॥ ३१ ॥
ब्रह्म जज्ञानं प्रथमं पुरस्तात्वि सीमतः सुरुचो वेन आवः ।स बुध्निया उपमा अस्य विष्ठाः सतश्च योनिंअसतश्च विवस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३२ ॥
यः प्राणतो निमिषतोमहित्वैक इद्राजा जगतो बभूव ।य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवायहविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३३ ॥
य आत्मदा बलदा यस्य विश्वेउपासते प्रशिषं यस्य देवाः ।यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवायहविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३४ ॥
यो रुद्रो अग्नौ यो अप्सु य ओषधीषुयो रुद्रो विश्वा भुवनाऽऽविवेश ।तस्मै रुद्राय नमो अस्तुतन्मे मनः शिवसङ्कल्पमस्तु ॥ ३५ ॥
गन्धद्वारां दुराधर्षांनित्यपुष्टां करीषिणीम् ।ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियंतन्मे मनः शिवसङ्कल्पमस्तु ॥ ३६ ॥
य इदं शिवसङ्कल्पं सदा ध्यायन्ति ब्राह्मणाः ।ते परं मोक्षं गमिष्यन्ति तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३७ ॥
इति शिवसङ्कल्पोपनिषत् समाप्ता
[ इति शिवसङ्कल्पमन्त्राः समाप्ताः ]

Settings