शिवपञ्चाक्षरस्तोत्रम्

नागेन्द्रहाराय विलोचनायभस्माङ्गरागाय महेश्वराय ।नित्याय शुद्धाय दिगम्बरायतस्मै नकाराय नमः शिवाय ॥ १ ॥
मन्दाकिनीसलिलचन्दनचर्चितायनन्दीश्वरप्रमथनाथमहेश्वराय ।मन्दारमुख्यबहुपुष्पसुपूजितायतस्मै मकारमहिताय नमः शिवाय ॥ २ ॥
शिवाय गौरीवदनाब्जवृन्द-सूर्याय दक्षाध्वरनाशकाय ।श्रीनीलकण्ठाय वृषध्वजायतस्मै शिकाराय नमः शिवाय ॥ ३ ॥
वसिष्ठकुम्भोद्भवगौतमार्य-मुनीन्द्रदेवार्चितशेखराय ।चन्द्रार्कवैश्वानरलोचनायतस्मै वकाराय नमः शिवाय ॥ ४ ॥
यक्षस्वरूपाय जटाधरायपिनाकहस्ताय सनातनाय ।दिव्याय देवाय दिगम्बरायतस्मै यकाराय नमः शिवाय ॥ ५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवपञ्चाक्षरस्तोत्रं संपूर्णम् ॥

Settings