सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदान मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् ।हरिब्रह्मादीनामपि निकटभाजामसुलभंचिरं याचे शंभो शिव तव पदाम्भोजभजनम् ॥ ४ ॥
गुहायां गेहे वा बहिरपि वने वाद्रिशिखरेजले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।सदा यस्यैवान्तःकरणमपि शंभो तव पदेस्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥
असारे संसारे निजभजनदूरे जडधियाभ्रमन्तं मामन्धं परमकृपया पातुमुचितम् ।मदन्यः को दीनस्तव कृपणरक्षातिनिपुण-स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ १३ ॥
उपेक्षा नो चेत्किं न हरसि भवद्ध्यानविमुखांदुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् ।शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपतेकथं वा निर्यत्नं करनखमुखेनैव लुलितम् ॥ १५ ॥
विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर-श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।विचारः को वा मां विशद कृपया पाति शिव तेकटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ १६ ॥
सदा मोहाटव्यां चरति युवतीनां कुचगिरौनटत्याशाशाखास्वटति झटिति स्वैरमभितः ।कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलंदृढं भक्त्या बद्धा शिव भवदधीनं कुरु विभो ॥ २० ॥
नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिःपूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यतेका वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥
नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशयाव्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो ।मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर-स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥
बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापतेघोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ ।त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिःपूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥
पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महेपक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ।जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभोन ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥ ८६ ॥
<teiHeader>
<fileDesc>
<titleStmt>
<title type="main">शिवानन्दलहरी</title>
<title type="sub">A machine-readable edition</title>
<author>आदिशङ्कराचार्यः</author>
<principal>Arun Prasad</principal>
<respStmt>
<persName>Arun Prasad</persName>
<resp>Creation of machine-readable version.</resp>
</respStmt>
</titleStmt>
<publicationStmt>
<authority>Ambuda (https://ambuda.org)</authority>
<availability>
<p>Distributed by Ambuda under a Creative Commons CC0 1.0 Universal Licence (public domain)</p>
</availability>
<date>2026-03-02</date>
</publicationStmt>
<notesStmt>
<note>This text has been created by direct export from Ambuda's proofing environment.</note>
</notesStmt>
<sourceDesc>
<bibl>
<title>The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1)</title>
<publisher>Sri Vani Vilas Press</publisher>
<date>1910</date>
<author>आदिशङ्कराचार्यः</author>
</bibl>
</sourceDesc>
</fileDesc>
<encodingDesc>
<projectDesc>
<p>Ambuda is an online library of Sanskrit literature.</p>
</projectDesc>
<editorialDesc>
<normalization>
<p>Normalization of whitespace around dandas and other punctuation marks.</p>
</normalization>
</editorialDesc>
</encodingDesc>
<revisionDesc />
</teiHeader>
Most of our texts are sourced from a custom snapshot of GRETIL, which you can find
here.
Our रामायणम् and महाभारतम्
texts are sourced from
John Smith's website.
Parse data comes from a custom snapshot of the Digital Corpus of Sanskrit, which you can find
here.