षट्पदीस्तोत्रम्

अविनयमपनय विष्णोदमय मनः शमय विषयमृगतृष्णाम् ।भूतदयां विस्तारयतारय संसारसागरतः ॥ १ ॥
दिव्यधुनीमकरन्देपरिमलपरिभोगसच्चिदानन्दे ।श्रीपतिपदारविन्देभवभयखेदच्छिदे वन्दे ॥ २ ॥
सत्यपि भेदापगमेनाथ तवाहं न मामकीनस्त्वम् ।सामुद्रो हि तरङ्गःक्वचन समुद्रो न तारङ्गः ॥ ३ ॥
उद्धृतनग नगभिदनुजदनुजकुलामित्र मित्रशशिदृष्टे ।दृष्टे भवति प्रभवतिन भवति किं भवतिरस्कारः ॥ ४ ॥
मत्स्यादिभिरवतारै-रवतारवतावता सदा वसुधाम् ।परमेश्वर परिपाल्योभवता भवतापभीतोऽहम् ॥ ५ ॥
दामोदर गुणमन्दिरसुन्दरवदनारविन्द गोविन्द ।भवजलधिमथनमन्दरपरमं दरमपनय त्वं मे ॥ ६ ॥
नारायण करुणामयशरणं करवाणि तावकौ चरणौ।इति षट्पदी मदीयेवदनसरोजे सदा वसतु ॥ ७ ॥
इति षट्पदीस्तोत्रं संपूर्णम् ॥

Settings