सदानन्दोपनिषत्

This text does not support clickable word meanings.

तच्छंयोरावृणीमहे — इति शान्तिः
अथैनं सदानन्दः संवर्तो जैगीषव्यश्च नीललोहितं रुद्रमुवाच । भगवन् किमपवर्गं साधयतीति । स एतेभ्यो भगवान् नीललोहितः प्रोवाच । अन्तर्बहिर्धारितं परंब्रह्माभिधेयं शाम्भवं लिङ्गम्,
आधारे दहरेऽव्यक्ते स्वर्णस्फाटिकवैद्रुमम् ।निरन्तरानुसन्धानात् तदन्तर्धारणे विदुः ॥
चतुर्दलं द्वादशारं द्व्यश्रमव्यक्तकं शिवम् ।दहरेऽङ्गुष्ठमात्रं तमुमाकान्तमहर्निशम् ।अनिराकारमात्मानं धृत्वा यान्ति परं पदम् ॥
परात् परतरो ब्रह्मा तत्परात् परतो हरिः ।तत्परात् परतोऽधीशस्तस्मात् स्यादुत्तरः शिवः ॥
जातवेदसमव्यक्तं व्यक्ताव्यक्तं परं सदा ।तमात्मस्थं येऽनुपश्यन्ति धीराःतेषां शान्तिः शाश्वती नेतरेषाम् ॥
अन्तर्धारणशक्तेन ह्यशक्तेन द्विजोत्तमाः ।संस्कृत्य गुरुणा दत्तं शैवं लिङ्गमुरःस्थले ।धार्यं विप्रेण मुक्त्यर्थे शिवतत्त्वविदो विदुः ॥
येनाचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषमुपैति विद्वान् ।
अस्य मात्रा अकारो ब्रह्मरूप उकारो विष्णुरूपो मकारः कालकाल: अर्धमात्रा परमशिवः ओङ्कारो लिङ्गम् ।
योऽसौ सर्वेषु वेदेषु पठ्यते ह्यज ईश्वरः ।तस्मात्तद्धारणादेतल्लिङ्गदेहमलौकिकम् ।मृतेऽपि तन्न दह्येत बिले चैतद्विनिक्षिपेत् ॥
न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः ॥
यो वा स्वहस्तार्चितलिङ्गमेकं परात्परं धारयते नरो वा ।तस्यैव लभ्यः परमेश्वरोऽसौ निरञ्जनं साम्यमुपैति दिव्यम् ॥
शिवलिङ्गधरं विप्रं विपन्नं तु न दाहयेत् ।यदि वा दाहयेत्तस्य ब्रह्महत्या तदा भवेत् ॥
यदिदं लिङ्गं सकळं सकळनिष्कळं निष्कलं च स्थूलं सूक्ष्मं च तत्परं स्थूले स्थूल सूक्ष्मे सूक्ष्मं कारणं तत्परं च ।
आत्मानभरणिं कृत्वा प्रणवं चोत्तरारणिम् ।ध्याननिर्मथनादेव पाशं दहति मानवः ।अन्तर्बहिश्च तल्लिङ्गं विधत्ते यस्तु शाश्वतम् ॥
अविद्याऽऽवरणं भित्त्वा ब्रह्मणः सायुज्यं सलोकतामाप्नोति । तदिदं लिङ्गं ब्रह्म । तदिदं ॐ सत्यम् । यो विद्वान् ब्रह्मचारी गृही वानप्रस्थो यतिर्वा सदानन्दोपनिषदं पठति सोऽग्निपूतो भवति । स सत्यपूतो भवति ।स्वर्णस्तेयात् पूतो भवति । ब्रह्महत्यायाः पूतो भवति । स सकलभोगभुक् देहं त्यक्त्वा शिवसायुज्यमेति । इत्युपनिषत् ॥
इति सदानन्दोपनिषत् समाप्ता