Click on words to see what they mean.

प्रस्थाप्य तद्बलं सर्वं मासमात्रोषितः पथि ।एक एवाशु शत्रुघ्नो जगाम त्वरितस्तदा ॥ १ ॥
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ॥ २ ॥
सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥ ३ ॥
भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ॥ ४ ॥
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः ।प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥ ५ ॥
स्वमाश्रममिदं सौम्य राघवाणां कुलस्य ह ।आसनं पाद्यमर्घ्यं च निर्विशङ्कः प्रतीच्छ मे ॥ ६ ॥
प्रतिगृह्य ततः पूजां फलमूलं च भोजनम् ।भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥ ७ ॥
स तु भुक्त्वा महाबाहुर्महर्षिं तमुवाच ह ।पूर्वं यज्ञविभूतीयं कस्याश्रमसमीपतः ॥ ८ ॥
तस्य तद्भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ ९ ॥
युष्माकं पूर्वको राजा सुदासस्य महात्मनः ।पुत्रो मित्रसहो नाम वीर्यवानतिधार्मिकः ॥ १० ॥
स बाल एव सौदासो मृगयामुपचक्रमे ।चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ॥ ११ ॥
शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः ।भक्षयाणावसंतुष्टौ पर्याप्तिं च न जग्मतुः ॥ १२ ॥
स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ।क्रोधेन महताविष्टो जघानैकं महेषुणा ॥ १३ ॥
विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ।विज्वरो विगतामर्षो हतं रक्षोऽभ्यवैक्षत ॥ १४ ॥
निरीक्षमाणं तं दृष्ट्वा सहायस्तस्य रक्षसः ।संतापमकरोद्घोरं सौदासं चेदमब्रवीत् ॥ १५ ॥
यस्मादनपराद्धं त्वं सहायं मम जघ्निवान् ।तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ १६ ॥
एवमुक्त्वा तु तं रक्षस्तत्रैवान्तरधीयत ।कालपर्याययोगेन राजा मित्रसहोऽभवत् ॥ १७ ॥
राजापि यजते यज्ञं तस्याश्रमसमीपतः ।अश्वमेधं महायज्ञं तं वसिष्ठोऽभ्यपालयत् ॥ १८ ॥
तत्र यज्ञो महानासीद्बहुवर्षगणायुतान् ।समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् ॥ १९ ॥
अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् ।वसिष्ठरूपी राजानमिति होवाच राक्षसः ॥ २० ॥
अद्य यज्ञावसानान्ते सामिषं भोजनं मम ।दीयतामिति शीघ्रं वै नात्र कार्या विचारणा ॥ २१ ॥
तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा कामरूपिणा ।भक्षसंस्कारकुशलमुवाच पृथिवीपतिः ॥ २२ ॥
हविष्यं सामिषं स्वादु यथा भवति भोजनम् ।तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ॥ २३ ॥
शासनात्पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः ।स च रक्षः पुनस्तत्र सूदवेषमथाकरोत् ॥ २४ ॥
स मानुषमथो मांसं पार्थिवाय न्यवेदयत् ।इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥ २५ ॥
स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् ।मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ॥ २६ ॥
ज्ञात्वा तदामिषं विप्रो मानुषं भोजनाहृतम् ।क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे ॥ २७ ॥
यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि ।तस्माद्भोजनमेतत्ते भविष्यति न संशयः ॥ २८ ॥
स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ।पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ २९ ॥
तच्छ्रुता पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् ।पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ॥ ३० ॥
मया रोषपरीतेन यदिदं व्याहृतं वचः ।नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ॥ ३१ ॥
कालो द्वादश वर्षाणि शापस्यास्य भविष्यति ।मत्प्रसादाच्च राजेन्द्र अतीतं न स्मरिष्यसि ॥ ३२ ॥
एवं स राजा तं शापमुपभुज्यारिमर्दनः ।प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ॥ ३३ ॥
तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् ।आश्रमस्य समीपेऽस्मिन्यस्मिन्पृच्छसि राघव ॥ ३४ ॥
तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् ।विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ ३५ ॥
« »