एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम् ।इदं शुभतरं वाक्यं व्याजहार महेश्वरः ॥ १ ॥
पुष्कराक्ष महाबाहो महावक्षः परंतप ।दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर ॥ २ ॥
दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः ।अपावृत्तं त्वया संख्ये राम रावणजं भयम् ॥ ३ ॥
आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् ।कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ॥ ४ ॥
प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् ।इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल ॥ ५ ॥
इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः ।ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि ॥ ६ ॥
एष राजा विमानस्थः पिता दशरथस्तव ।काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः ॥ ७ ॥
इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः ।लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ॥ ८ ॥
महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः ।विमानशिखरस्थस्य प्रणाममकरोत्पितुः ॥ ९ ॥
दीप्यमानं स्वयां लक्ष्म्या विरजोऽम्बरधारिणम् ।लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः ॥ १० ॥
हर्षेण महताविष्टो विमानस्थो महीपतिः ।प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा ॥ ११ ॥
आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुः ।बाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे ॥ १२ ॥
न मे स्वर्गो बहुमतः संमानश्च सुरर्षिभिः ।त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ॥ १३ ॥
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर ।तव प्रव्राजनार्थानि स्थितानि हृदये मम ॥ १४ ॥
त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् ।अद्य दुःखाद्विमुक्तोऽस्मि नीहारादिव भास्करः ॥ १५ ॥
तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना ।अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा ॥ १६ ॥
इदानीं च विजानामि यथा सौम्य सुरेश्वरैः ।वधार्थं रावणस्येह विहितं पुरुषोत्तमम् ॥ १७ ॥
सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् ।वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदन ॥ १८ ॥
सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् ।जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् ॥ १९ ॥
अनुरक्तेन बलिना शुचिना धर्मचारिणा ।इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम् ॥ २० ॥
चतुर्दशसमाः सौम्य वने निर्यापितास्त्वया ।वसता सीतया सार्धं लक्ष्मणेन च धीमता ॥ २१ ॥
निवृत्तवनवासोऽसि प्रतिज्ञा सफला कृता ।रावणं च रणे हत्वा देवास्ते परितोषिताः ॥ २२ ॥
कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन ।भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि ॥ २३ ॥
इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् ।कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च ॥ २४ ॥
सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया ।स शापः कैकयीं घोरः सपुत्रां न स्पृशेत्प्रभो ॥ २५ ॥
स तथेति महाराजो राममुक्त्वा कृताञ्जलिम् ।लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह ॥ २६ ॥
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ।कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ॥ २७ ॥
धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि ।रामे प्रसन्ने स्वर्गं च महिमानं तथैव च ॥ २८ ॥
रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन ।रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा ॥ २९ ॥
एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः ।अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम् ॥ ३० ॥
एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मनिर्मितम् ।देवानां हृदयं सौम्य गुह्यं रामः परंतपः ॥ ३१ ॥
अवाप्तं धर्मचरणं यशश्च विपुलं त्वया ।रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ॥ ३२ ॥
स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम् ।उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् ॥ ३३ ॥
कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति ।रामेण त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा ॥ ३४ ॥
न त्वं सुभ्रु समाधेया पतिशुश्रूवणं प्रति ।अवश्यं तु मया वाच्यमेष ते दैवतं परम् ॥ ३५ ॥
इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम् ।इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् ॥ ३६ ॥