Click on words to see what they mean.

व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः ।समेत्य राजकर्तारः सभामीयुर्द्विजातयः ॥ १ ॥
मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः ।कात्ययनो गौतमश्च जाबालिश्च महायशाः ॥ २ ॥
एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन् ।वसिष्ठमेवाभिमुखाः श्रेष्ठो राजपुरोहितम् ॥ ३ ॥
अतीता शर्वरी दुःखं या नो वर्षशतोपमा ।अस्मिन्पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे ॥ ४ ॥
स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः ।लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह ॥ ५ ॥
उभौ भरतशत्रुघ्नौ क्केकयेषु परंतपौ ।पुरे राजगृहे रम्ये मातामहनिवेशने ॥ ६ ॥
इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् ।अराजकं हि नो राष्ट्रं न विनाशमवाप्नुयात् ॥ ७ ॥
नाराजले जनपदे विद्युन्माली महास्वनः ।अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा ॥ ८ ॥
नाराजके जनपदे बीजमुष्टिः प्रकीर्यते ।नाराकके पितुः पुत्रो भार्या वा वर्तते वशे ॥ ९ ॥
अराजके धनं नास्ति नास्ति भार्याप्यराजके ।इदमत्याहितं चान्यत्कुतः सत्यमराजके ॥ १० ॥
नाराजके जनपदे कारयन्ति सभां नराः ।उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च ॥ ११ ॥
नाराजके जनपदे यज्ञशीला द्विजातयः ।सत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः ॥ १२ ॥
नाराजके जनपदे प्रभूतनटनर्तकाः ।उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः ॥ १३ ॥
नारजके जनपदे सिद्धार्था व्यवहारिणः ।कथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियैः ॥ १४ ॥
नाराजके जनपदे वाहनैः शीघ्रगामिभिः ।नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः ॥ १५ ॥
नाराकजे जनपदे धनवन्तः सुरक्षिताः ।शेरते विवृत द्वाराः कृषिगोरक्षजीविनः ॥ १६ ॥
नाराजके जनपदे वणिजो दूरगामिनः ।गच्छन्ति क्षेममध्वानं बहुपुण्यसमाचिताः ॥ १७ ॥
नाराजके जनपदे चरत्येकचरो वशी ।भावयन्नात्मनात्मानं यत्रसायंगृहो मुनिः ॥ १८ ॥
नाराजके जनपदे योगक्षेमं प्रवर्तते ।न चाप्यराजके सेना शत्रून्विषहते युधि ॥ १९ ॥
यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम् ।अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ॥ २० ॥
नाराजके जनपदे स्वकं भवति कस्यचित् ।मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् ॥ २१ ॥
येहि संभिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः ।तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः ॥ २२ ॥
अहो तम इवेदं स्यान्न प्रज्ञायेत किंचन ।राजा चेन्न भवेँल्लोके विभजन्साध्वसाधुनी ॥ २३ ॥
जीवत्यपि महाराजे तवैव वचनं वयम् ।नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः ॥ २४ ॥
स नः समीक्ष्य द्विजवर्यवृत्तं नृपं विना राज्यमरण्यभूतम् ।कुमारमिक्ष्वाकुसुतं वदान्यं त्वमेव राजानमिहाभिषिञ्चय ॥ २५ ॥
« »