Click on words to see what they mean.

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन ।विदधे कामधुक्कामान्यस्य यस्य यथेप्सितम् ॥ १ ॥
इक्षून्मधूंस्तथा लाजान्मैरेयांश्च वरासवान् ।पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा ॥ २ ॥
उष्णाढ्यस्यौदनस्यापि राशयः पर्वतोपमाः ।मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च ॥ ३ ॥
नानास्वादुरसानां च षाडवानां तथैव च ।भाजनानि सुपूर्णानि गौडानि च सहस्रशः ॥ ४ ॥
सर्वमासीत्सुसंतुष्टं हृष्टपुष्टजनाकुलम् ।विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम् ॥ ५ ॥
विश्वामित्रोऽपि राजर्षिर्हृष्टपुष्टस्तदाभवत् ।सान्तः पुरवरो राजा सब्राह्मणपुरोहितः ॥ ६ ॥
सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा ।युक्तः परेण हर्षेण वसिष्ठमिदमब्रवीत् ॥ ७ ॥
पूजितोऽहं त्वया ब्रह्मन्पूजार्हेण सुसत्कृतः ।श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ॥ ८ ॥
गवां शतसहस्रेण दीयतां शबला मम ।रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः ।तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज ॥ ९ ॥
एवमुक्तस्तु भगवान्वसिष्ठो मुनिसत्तमः ।विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ॥ १० ॥
नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ।राजन्दास्यामि शबलां राशिभी रजतस्य वा ॥ ११ ॥
न परित्यागमर्हेयं मत्सकाशादरिंदम ।शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ॥ १२ ॥
अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च ।आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च ॥ १३ ॥
स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा ।आयत्तमत्र राजर्षे सर्वमेतन्न संशयः ॥ १४ ॥
सर्व स्वमेतत्सत्येन मम तुष्टिकरी सदा ।कारणैर्बहुभी राजन्न दास्ये शबलां तव ॥ १५ ॥
वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्ततः ।संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ॥ १६ ॥
हैरण्यकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान् ।ददामि कुञ्जराणां ते सहस्राणि चतुर्दश ॥ १७ ॥
हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् ।ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् ॥ १८ ॥
हयानां देशजातानां कुलजानां महौजसाम् ।सहस्रमेकं दश च ददामि तव सुव्रत ॥ १९ ॥
नानावर्णविभक्तानां वयःस्थानां तथैव च ।ददाम्येकां गवां कोटिं शबला दीयतां मम ॥ २० ॥
एवमुक्तस्तु भगवान्विश्वामित्रेण धीमता ।न दास्यामीति शबलां प्राह राजन्कथंचन ॥ २१ ॥
एतदेव हि मे रत्नमेतदेव हि मे धनम् ।एतदेव हि सर्वस्वमेतदेव हि जीवितम् ॥ २२ ॥
दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः ।एतदेव हि मे राजन्विविधाश्च क्रियास्तथा ॥ २३ ॥
अदोमूलाः क्रियाः सर्वा मम राजन्न संशयः ।बहूनां किं प्रलापेन न दास्ये कामदोहिनीम् ॥ २४ ॥
« »