अथ तां रजनीमुष्य विश्वामिरो महायशाः ।प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ॥ १ ॥
पतितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः ।प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥ २ ॥
देवासुरगणान्वापि सगन्धर्वोरगानपि ।यैरमित्रान्प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ ३ ॥
तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।दण्डचक्रं महद्दिव्यं तव दास्यामि राघव ॥ ४ ॥
धर्मचक्रं ततो वीर कालचक्रं तथैव च ।विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च ॥ ५ ॥
वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा ।अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ।ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् ॥ ६ ॥
गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे ।प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ॥ ७ ॥
धर्मपाशमहं राम कालपाशं तथैव च ।वारुणं पाशमस्त्रं च ददान्यहमनुत्तमम् ॥ ८ ॥
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ॥ ९ ॥
ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ।आग्नेयमस्त्र दयितं शिखरं नाम नामतः ॥ १० ॥
वायव्यं प्रथमं नाम ददामि तव राघव ।अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ॥ ११ ॥
शक्ति द्वयं च काकुत्स्थ ददामि तव चानघ ।कङ्कालं मुसलं घोरं कापालमथ कङ्कणम् ॥ १२ ॥
धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः ।वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ॥ १३ ॥
असिरत्नं महाबाहो ददामि नृवरात्मज ।गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ॥ १४ ॥
प्रस्वापनप्रशमने दद्मि सौरं च राघव ।दर्पणं शोषणं चैव संतापनविलापने ॥ १५ ॥
मदनं चैव दुर्धर्षं कन्दर्पदयितं तथा ।पैशाचमस्त्रं दयितं मोहनं नाम नामतः ।प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥ १६ ॥
तामसं नरशार्दूल सौमनं च महाबलम् ।संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज ॥ १७ ॥
सत्यमस्त्रं महाबाहो तथा मायाधरं परम् ।घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥ १८ ॥
सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदामनम् ।दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥ १९ ॥
एतान्नाम महाबाहो कामरूपान्महाबलान् ।गृहाण परमोदारान्क्षिप्रमेव नृपात्मज ॥ २० ॥
स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्निवरतस्तदा ।ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥ २१ ॥
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥ २२ ॥
ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा ।इमे स्म परमोदार किंकरास्तव राघव ॥ २३ ॥
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।मनसा मे भविष्यध्वमिति तान्यभ्यचोदयत् ॥ २४ ॥
ततः प्रीतमना रामो विश्वामित्रं महामुनिम् ।अभिवाद्य महातेजा गमनायोपचक्रमे ॥ २५ ॥