रामगीता

Click on words to see what they mean.

निर्गुण निष्कल नित्यनिरञ्जननिर्गतमत्सर गम्य दयालो ।संसारेऽस्मिन्निर्गतसारे पाहि विपारे दशवदनारे ॥ १ ॥
कोऽयं पुत्रः केयं जाया माया सेयं मर्दय रागम् ।सर्वसमत्वं सर्वहितत्वं सत्सङ्गित्वं देहि विभो मे ॥ २ ॥
विश्वारम्भं विष्णोर्नाम्नामस्तु सहस्रं सकलस्तुत्यम् ।नाम तु "रामे" त्यमलमिदं ते तारकमृषयः परिभाषन्ते ॥ ३ ॥
सीताकामिन्निह भीतानां चरणं शरणं तव यातानाम् ।जननक्लेशं मरणक्लेशं नाशय गमनागमनक्लेशम् ॥ ४ ॥
चतुरास्यस्त्वञ्चक्रधरस्त्वं प्रमथेशस्त्वं परमात्मा त्वम् ।सनकप्रभृतिस्तुतगुणमेतद् व्यूहचतुष्कं बहुकीर्ते ते ॥ ५ ॥
नास्ति वपुस्ते नास्ति तवाख्या नास्ति च कर्म स्वस्तिद विष्णो ।मायाकल्पितमिदमखिलं ते रूपं कर्म च नाम च विविधम् ॥ ६ ॥
तत्त्वसमूहादुपरि लसन्तं पुरुषं साङख्याः प्रवदन्ति त्वाम् ।दशशतपत्रे दशमुखशत्रो योगविदस्त्वामालोकन्ते ॥ ७ ॥
जैमिनिमुख्याः कर्मश्रौतं देवपते ते वैभवमाहुः ।वेदान्ते ये निष्ठितमतयः ते प्राहुस्त्वामेकमभेदम् ॥ ८ ॥
तव च ममापि च भेदाभावं दूरदृशांपर कथयति वाणी ।मम तु तयाऽभूद्दशमज्ञानं दशवदनारे दशमस्यैव ॥ ९ ॥
॥ इति श्रीरामगीता समाप्त। ॥
« »