पिण्डोपनिषत् This text does not support clickable word meanings. ॐ देवता ऋषयः सर्वे ब्रह्माणमिदमब्रुवन् ।मृतस्य दीयते पिण्डं कथं गृह्णन्त्यचेतसः ॥ ▼ Edit Permalink Bookmark भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा ।हंसस्त्यक्त्वा गतो देहं कस्मिन् स्थाने व्यवस्थितः ▼ Edit Permalink Bookmark त्र्यहं वसति तोयेषु त्र्यहं वसति चाग्निषु ।त्र्यहमाकाशगो भूत्वा दिनमेकन्तु वायुगः ॥ ▼ Edit Permalink Bookmark प्रथमेन तु पिण्डेन कलानां तस्य सम्भवः ।द्वितीयेन तु पिण्डेन मांसत्वक्च्छोणितोद्भवः ॥ ▼ Edit Permalink Bookmark तृतीयेन तु पिण्डेन मतिस्तस्याभिजायते ।चतुर्थेन तु पिण्डेन अस्थि मज्जा प्रजायते ॥ ▼ Edit Permalink Bookmark पञ्चमेन तु पिण्डेन हस्ताङ्गुल्यः शिरो मुखम् ।षष्ठेन कृतपिण्डेन हृत्कण्ठं तालु जायते ॥ ▼ Edit Permalink Bookmark सप्तमेन तु पिण्डेन दीर्घमायुः प्रजायते ।अष्टमेन तु पिण्डेन वाचं पुष्यति वीर्यवान् ॥ ▼ Edit Permalink Bookmark नवमेन तु पिण्डेन सर्वेन्द्रियसमाहृतिः ।दशमेन तु पिण्डेन भावनं प्लावनं तथा ।पिण्डे पिण्डे शरीरस्य पिण्डदानेन सम्भवः ॥ ▼ Edit Permalink Bookmark इति पिण्डोपनिषत् समाप्ता ▼ Edit Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha