पाण्डुरङ्गाष्टकम्

महायोगपीठे तटे भीमरथ्यावरं पुण्डरीकाय दातुं मुनीन्द्रैः ।समागत्य तिष्ठन्तमानन्दकन्दंपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ १ ॥
तटिद्वाससं नीलमेघावभासंरमामन्दिरं सुन्दरं चित्प्रकाशम् ।वरं त्विष्टकायां समन्यस्तपादंपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ २ ॥
प्रमाणं भवाब्धेरिदं मामकानांनितम्बः कराभ्यां धृतो येन तस्मात् ।विधातुर्वसत्यै धृतो नाभिकोशःपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ३ ॥
स्फुरत्कौस्तुभालंकृतं कण्ठदेशेश्रिया जुष्टकेयूरकं श्रीनिवासम् ।शिवं शन्तमीड्यं वरं लोकपालंपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ४ ॥
शरच्चन्द्रबिम्बाननं चारुहासंलसत्कुण्डलाक्रान्तगण्डस्थलान्तम् ।जपारागबिम्बाधरं कञ्जनेत्रंपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ५ ॥
किरीटोज्ज्वलत्सर्वदिक्प्रान्तभागंसुरैरर्चितं दिव्यरत्नैरनर्घैः ।त्रिभङ्गाकृतिं बर्हमाल्यावतंसंपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ६ ॥
विभुं वेणुनादं चरन्तं दुरन्तंस्वयं लीलया गोपवेषं दधानम् ।गवां बृन्दकानन्ददं चारुहासंपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ७ ॥
अजं रुक्मिणीप्राणसंजीवनं तंपरं धाम कैवल्यमेकं तुरीयम् ।प्रसन्नं प्रपन्नार्तिहं देवदेवंपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ८ ॥
स्तवं पाण्डुरङ्गस्य वै पुण्यदं येपठन्त्येकचित्तेन भक्त्या च नित्यम् ।भवाम्भोनिधिं ते वितीर्त्वान्तकालेहरेरालयं शाश्वतं प्राप्नुवन्ति ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ पाण्डुरङ्गाष्टकं संपूर्णम् ॥

Settings