प्रथम: खण्ड:

अपश्यं त्वावरोहन्तं दिवितः पृथिवीमवः ।अपश्यं रुद्रमस्यन्तं नीलग्रीवं शिखण्डिनम् ॥
दिव उग्रोऽवारुक्षत् प्रत्यस्थाद्भूम्यामधि ।जनासः पश्यतेमं नीलग्रीवं विलोहितम् ॥
एष एत्यवीरहा रुद्रो जलासभेषजीः ।वित्तेऽक्षेममनीनशद्वातीकारोऽप्येतु ते ॥
नमस्ते भवभामाय नमस्ते भवमन्यवे ।नमस्ते अस्तु बाहुभ्यामुतो त इषवे नमः ॥
यामिषं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत् ॥
या त इषुः शिवतमा शिवं बभूव ते धनुः ।शिवा शरव्या या तव तया नो मृड जीवसे ॥
या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।तया नस्तन्वा शंतमया गिरिशन्ताभिचाकशत् ॥
असौ यस्ताम्रो अरुण उत बभ्रुर्विलोहितः ।ये चेमे रुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषां हेड ईमहे ॥ १ ॥
इति प्रथमः खण्डः

Settings