तृतीयः खण्डः

स होवाच भगवान् ब्रह्मा नारायणः परब्रह्मेति य एवं वेद । नारायणात्मा वेदं सर्वं निर्विकारं निरञ्जनवस्तु प्रतिपाद्यते । स नारायणो विराट्पुरुषो भवति । देवानां वासवो भवति । इन्द्रियाणां मनो भवति ।सर्वेषां वस्तूनां मुख्यवस्तु भवति । ॐ नमो नारायणादन्यो मन्त्रः नारायणादन्योपास्तिर्नास्ति । नान्यन्नारायणादुपासितव्यम् । सर्वं नारायण एव भवतीति विज्ञायते । योऽधीते नित्यं सर्वान् कामानवाप्नोति । स ब्रह्महत्यायाः पूतो भवति । सुरापानात् पूतो भवति । स्वर्णस्तेयात् पूतो भवति । गुरुतल्पगमनात् पूतो भवति । अगम्यागमनात् पूतो भवति । अभक्ष्यभक्षात् पूतो भवति । स उपपातकमहापातकेभ्यः पूतो भवति । सर्ववेदमधीयानो भवति । सर्वक्रतुफलं प्राप्नोति । सर्वकर्मकर्ता भवति । चतुःसमुद्रपर्यन्तभूदानफलं प्राप्नोति । द्विजोत्तमो भवति । चतुर्वर्गफलं प्राप्नोति । ब्रह्मचारी ज्ञानवान् भवति । गृही पुत्रपौत्रमहैश्वर्यवान् भवति । सन्न्यासी मोक्षवान् भवति ॥
पठनाच्छ्रवणाद्वाऽपि सर्वान् कामानवाप्नुयात् ।नारायणप्रसादेन वैकुण्ठपदमश्नुते ॥
इति स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥
वेदाक्षराणि यावन्ति पठितानि द्विजोत्तमैः ।तावन्ति हरिनामानि कीर्तितानि न संशयः ॥
नारायण हरे कृष्ण वासुदेव जगद्गुरो ।मुकुन्दाच्युत देवेश महाविष्णो नमोऽस्तु ते ॥
भूतानि तत्त्वसंज्ञानि कूटस्थोऽक्षरसंज्ञितः ।उत्तमश्चापि पुरुषो नारायण इतीर्यते ॥
इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये तृतीयः खण्डः
इति नारायणोत्तरतापिनीयोपनिषत् समाप्ता

Settings