अस्त्यद्यापि चतुस्समुद्रपरिखापर्यन्तमुर्वीतलंसन्त्यन्येऽपि विदग्धकेलिरसिकाः केचित्क्वचिद्भूभुजः।एकस्तत्र निरादरो यदि भवेत् अन्यो भवेत्सादरःवाग्देवी वदनाम्बुजे यदि भवेत् को नाम दीनो जनः ॥ ५७ ॥
को देशः कुत्र पुर्यां तव वसतिररे किं च गोत्रं च शाखाका ते किं नाम सत्यं वद किमु पठितं वेदशास्त्रं च किन्नु ।इत्थं पृष्टा धनाढ्यो वितरति च पुरः काचिकां (काकिणीं?) ब्राह्मणेभ्योहृष्टेभ्यस्सर्ववित्तं (वितरति हि भवान्?) दृष्टमात्रेण चित्रम् ॥ १८७ ॥
ज्ञानवृद्धास्तपोवृद्धाश्शीलवृद्धास्तथैव च ।सर्वे ते धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः ॥ १८८ ॥