मोहमुद्गरः

भज गोविन्दं भज गोविन्दंभज गोविन्दं मूढमते ।संप्राप्ते संनिहिते कालेन हि न हि रक्षति डुकृञ्करणे ॥ १ ॥
मूढ जहीहि धनागमतृष्णांकुरु सद्बुद्धिं मनसि वितृष्णाम् ।यल्लभसे निजकर्मोपात्तंवित्तं तेन विनोदय चित्तम् ॥ २ ॥
नारीस्तनभरनाभीदेशंदृष्ट्वा मा गा मोहावेशम् ।एतन्मांसवसादिविकारंमनसि विचिन्तय वारं वारम् ॥ ३ ॥
नलिनीदलगतजलमतितरलंतद्वज्जीवितमतिशयचपलम् ।विद्धि व्याध्यभिमानप्रस्तंलोकं शोकहतं च समस्तम् ॥ ४ ॥
यावद्वित्तोपार्जनसक्त-स्तावन्निजपरिवारो रक्तः ।पश्चाज्जीवति जर्जरदेहेवार्त्तां कोऽपि न पृच्छति गेहे ॥ ५ ॥
यावत्पवनो निवसति देहेतावत्पृच्छति कुशलं गेहे ।गतवति वायौ देहापायेभार्या बिभ्यति तस्मिन्काये ॥ ६ ॥
बालस्तावत्क्रीडासक्त-स्तरुणस्तावत्तरुणीसक्तः ।वृद्धस्तावच्चिन्तासक्तःपरे ब्रह्मणि कोऽपि न सक्तः ॥ ७ ॥
का ते कान्ता कस्ते पुत्रःसंसारोऽयमतीव विचित्रः ।कस्य त्वं कः कुत आयात-स्तत्त्वं चिन्तय यदिदं भ्रान्तः ॥ ८ ॥
सत्सङ्गत्वे निःसङ्गत्वंनिःसङ्गत्वे निर्मोहत्वम् ।निर्मोहत्वे निश्चलितत्वंनिश्चलितत्वे जीवन्मुक्तिः ॥ ९ ॥
वयसि गते कः कामविकारःशुष्के नीरे कः कासारः ।क्षीणे वित्ते कः परिवारोज्ञाते तत्त्वे कः संसारः ॥ १० ॥
मा कुरु धनजनयौवनगर्वंहरति निमेषात्कालः सर्वम् ।मायामयमिदमखिलं हित्वाब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११ ॥
दिनयामिन्यौ सायं प्रातःशिशिरवसन्तौ पुनरायातः ।कालः क्रीडति गच्छत्यायु-स्तदपि न मुञ्चत्याशावायुः ॥ १२ ॥
का ते कान्ताधनगतचिन्तावातुल किं तव नास्ति नियन्ता ।त्रिजगति सज्जनसंगतिरेकाभवति भवार्णवतरणे नौका ॥ १३ ॥
जटिली मुण्डी लुश्चितकेशःकाषायाम्बरबहुकृतवेषः ।पश्यन्नपि च न पश्यति मूढोह्युदरनिमित्तं बहुकृतवेषः ॥ १४ ॥
अङ्गं गलितं पलितं मुण्डंदशनविहीनं जातं तुण्डम् ।वृद्धो याति गृहीत्वा दण्डंतदपि न मुञ्चत्याशापिण्डम् ॥ १५ ॥
अग्रे वह्निः पृष्ठे भानूरात्रौ चुबुकसमर्पितजानुः ।करतलभिक्षस्तरुतलवास-स्तदपि न मुंचत्याशापाशः ॥ १६ ॥
कुरुते गङ्गासागरगमनंव्रतपरिपालनमथवा दानम् ।ज्ञानविहीनः सर्वमतेनमुक्तिं न भजति जन्मशतेन ॥ १७ ॥
सुरमन्दिरतरुमूलनिवासःशय्या भूतलमजिनं वासः ।सर्वपरिग्रहभोगत्यागःकस्य सुखं न करोति विरागः ॥ १८ ॥
योगरतो वा भोगरतो वासंगरतो वा संगविहीनः ।यस्य ब्रह्मणि रमते चित्तंनन्दति नन्दति नन्दत्येव ॥ १९ ॥
भगवद्गीता किंचिदधीतागङ्गाजललवकणिका पीता ।सकृदपि येन मुरारिसमर्चाक्रियते तस्य यमेन न चर्चा ॥ २० ॥
पुनरपि जननं पुनरपि मरणंपुनरपि जननीजठरे शयनम् ।इह संसारे बहुदुस्तारेकृपयापारे पाहि मुरारे ॥ २१ ॥
रध्याकर्पटविरचितकन्थःपुण्यापुण्यविवर्जितपन्थः ।योगी योगनियोजितचित्तोरमते बालोन्मत्तवदेव ॥ २२ ॥
कस्त्वं कोऽहं कुत आयातःका मे जननी को मे तातः ।इति परिभावय सर्वमसारंविश्वं त्यक्त्वा स्वप्नविचारम् ॥ २३ ॥
त्वयि मयि चान्यत्रैको विष्णु-र्व्यर्थं कुप्यसि मय्यसहिष्णुः ।सर्वस्मिन्नपि पश्यात्मानंसर्वत्रोत्सृज भेदाज्ञानम् ॥ २४ ॥
शत्रौ मित्रे पुत्रे बन्धौमा कुरु यत्नं विग्रहसन्धौ ।भव समचित्तः सर्वत्र त्वंवाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २५ ॥
कामं क्रोधं लोभं मोहंत्यक्त्वात्मानं भावय कोऽहम् ।आत्मज्ञानविहीना मूढा-स्ते पच्यन्ते नरकनिगूढाः ॥ २६ ॥
गेयं गीतानामसहस्रंध्येयं श्रीपतिरूपमजस्रम् ।नेयं सज्जनसङ्गे चित्तंदेयं दीनजनाय च वित्तम् ॥ २७ ॥
सुखतः क्रियते रामाभोगःपश्चाद्धन्त शरीरे रोगः ।यद्यपि लोके मरणं शरणंतदपि न मुञ्चति पापाचरणम् ॥ २८ ॥
अर्थमनर्थं भावय नित्यंनास्ति ततः सुखलेशः सत्यम् ।पुत्रादपि धनभाजां भीतिःसर्वत्रैषा विहिता रीतिः ॥ २९ ॥
प्राणायामं प्रत्याहारंनित्यानित्यविवेकविचारम् ।जाप्यसमेतसमाधिविधानंकुर्ववधानं महदवधानम् ॥ ३० ॥
गुरुचरणाम्बुजनिर्भरभक्तःसंसारादचिराद्भव मुक्तः ।सेन्द्रियमानसनियमादेवंद्रक्ष्यसि निजहृदयस्थं देवम् ॥ ३१ ॥
इति मोहमुद्गरः संपूर्णः ॥

Settings