मठाम्नायोपनिषत्
"तत्त्वमसि"इत्यादिवाक्यविचार: नित्यानित्यविवेकेनात्मनोपांस्ति आत्मतीर्थे आत्मोद्धारार्थे साक्षात्कारार्थे संन्यासग्रहणं करिष्ये । ॐ नमो नारायणायेति ॥
"प्रज्ञानमानन्दं ब्रह्म"इत्यादिवाक्यविचारः नित्यानित्यविवेकेनात्मनोपांस्ति आत्मतीर्थे आत्मोद्धारार्थे साक्षात्कारार्थे संन्यासग्रहणं करिष्ये । ॐ नमो नारायणायेति ॥
"अयमात्मा ब्रह्म"इत्यादिवाक्यविचारः नित्यानित्यविवेकेनात्मनोपांस्ति आत्मतीर्थे आत्मोद्धारार्थे साक्षात्कारार्थे संन्यासग्रहणं करिष्ये । ॐ नमो नारायणायेति ॥
"अहं ब्रह्मास्मि"इत्यादिवाक्यविचारः नित्यानित्यविवेकेनात्मनोपांस्ति आत्मतीर्थे आत्मोद्धारार्थे साक्षात्कारार्थे संन्यासग्रहणं करिष्ये । ॐ नमो नारायणायेति ॥
"संज्ञानमनन्तं ब्रह्म"इत्यादिवाक्यविचारः नित्यानित्यविवेकेनात्मनोपांस्ति आत्मतीर्थे आत्मोद्धारार्थे साक्षात्कारार्थे संन्यासग्रहणं करिष्ये । ॐ नमो नारायणायेति ॥