Click on words to see what they mean.

संजय उवाच ।प्रभातायां तु शर्वर्यां प्रातरुत्थाय वै नृपः ।राज्ञः समाज्ञापयत सेनां योजयतेति ह ।अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान् ॥ १ ॥
दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु ।मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः ॥ २ ॥
निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम् ।दीर्घं दध्यौ शांतनवो योद्धुकामोऽर्जुनं रणे ॥ ३ ॥
इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् ।दुर्योधनो महाराज दुःशासनमचोदयत् ॥ ४ ॥
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः ।द्वात्रिंशत्त्वमनीकानि सर्वाण्येवाभिचोदय ॥ ५ ॥
इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम् ।पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः ॥ ६ ॥
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् ।स नो गुप्तः सुखाय स्याद्धन्यात्पार्थांश्च संयुगे ॥ ७ ॥
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् ।स्त्रीपूर्वको ह्यसौ जातस्तस्माद्वर्ज्यो रणे मया ॥ ८ ॥
लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया ।राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा ॥ ९ ॥
नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथंचन ।हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ १० ॥
अयं स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः ।उद्योगे कथितं यत्तत्तथा जाता शिखण्डिनी ॥ ११ ॥
कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत ।तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथंचन ॥ १२ ॥
युद्धे तु क्षत्रियांस्तात पाण्डवानां जयैषिणः ।सर्वानन्यान्हनिष्यामि संप्राप्तान्बाणगोचरान् ॥ १३ ॥
एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित् ।तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम् ॥ १४ ॥
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महावने ।मा वृकेणेव शार्दूलं घातयेम शिखण्डिना ॥ १५ ॥
मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः ।यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः ॥ १६ ॥
एतच्छ्रुत्वा तु राजानो दुर्योधनवचस्तदा ।सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् ॥ १७ ॥
पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा ।कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् ॥ १८ ॥
तै रथैश्च सुसंयुक्तैर्दन्तिभिश्च महारथाः ।परिवार्य रणे भीष्मं दंशिताः समवस्थिताः ॥ १९ ॥
यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् ।सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् ॥ २० ॥
ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् ।सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् ।गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः ॥ २१ ॥
स रक्ष्यमाणः पार्थेन तथास्माभिर्विवर्जितः ।यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु ॥ २२ ॥
भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव ।भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह ॥ २३ ॥
भीष्मं तु रथवंशेन दृष्ट्वा तमभिसंवृतम् ।अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह ॥ २४ ॥
शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ ।स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहमप्युत ॥ २५ ॥
ततः शांतनवो भीष्मो निर्ययौ सेनया सह ।व्यूहं चाव्यूहत महत्सर्वतोभद्रमाहवे ॥ २६ ॥
कृपश्च कृतवर्मा च शैब्यश्चैव महारथः ।शकुनिः सैन्धवश्चैव काम्बोजश्च सुदक्षिणः ॥ २७ ॥
भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत ।अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः ॥ २८ ॥
द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष ।दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ॥ २९ ॥
अश्वत्थामा सोमदत्त आवन्त्यौ च महारथौ ।महत्या सेनया युक्ता वामं पक्षमपालयन् ॥ ३० ॥
दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः ।व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत ॥ ३१ ॥
अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः ।पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ॥ ३२ ॥
एवमेते तदा व्यूहं कृत्वा भारत तावकाः ।संनद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः ॥ ३३ ॥
तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः ।नकुलः सहदेवश्च माद्रीपुत्रावुभावपि ।अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः ॥ ३४ ॥
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ।स्थिताः सैन्येन महता परानीकविनाशनाः ॥ ३५ ॥
शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः ।चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् ।स्थिता रणे महाराज महत्या सेनया वृताः ॥ ३६ ॥
अभिमन्युर्महेष्वासो द्रुपदश्च महारथः ।केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः ॥ ३७ ॥
एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् ।पाण्डवाः समरे शूराः स्थिता युद्धाय मारिष ॥ ३८ ॥
तावकास्तु रणे यत्ताः सहसेना नराधिपाः ।अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाग्रतो नृप ॥ ३९ ॥
तथैव पाण्डवा राजन्भीमसेनपुरोगमाः ।भीष्मं युद्धपरिप्रेप्सुं संग्रामे विजिगीषवः ॥ ४० ॥
क्ष्वेडाः किलिकिलाशब्दान्क्रकचान्गोविषाणिकाः ।भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान् ।पाण्डवा अभ्यधावन्त नदन्तो भैरवान्रवान् ॥ ४१ ॥
भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः ।उत्क्रुष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ॥ ४२ ॥
वयं प्रतिनदन्तस्तानभ्यगच्छाम सत्वराः ।सहसैवाभिसंक्रुद्धास्तदासीत्तुमुलं महत् ॥ ४३ ॥
ततोऽन्योन्यं प्रधावन्तः संप्रहारं प्रचक्रिरे ।ततः शब्देन महता प्रचकम्पे वसुंधरा ॥ ४४ ॥
पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः ।सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ॥ ४५ ॥
ववुश्च तुमुला वाताः शंसन्तः सुमहद्भयम् ।घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे ।वेदयन्त्यो महाराज महद्वैशसमागतम् ॥ ४६ ॥
दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च ।रुधिरेण समुन्मिश्रमस्थिवर्षं तथैव च ॥ ४७ ॥
रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम् ।सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशां पते ॥ ४८ ॥
अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ ।रक्षसां पुरुषादानां नदतां भैरवान्रवान् ॥ ४९ ॥
संपतन्तः स्म दृश्यन्ते गोमायुबकवायसाः ।श्वानश्च विविधैर्नादैर्भषन्तस्तत्र तस्थिरे ॥ ५० ॥
ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् ।निपेतुः सहसा भूमौ वेदयाना महद्भयम् ॥ ५१ ॥
महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः ।प्रकाशिरे शङ्खमृदङ्गनिस्वनैः प्रकम्पितानीव वनानि वायुना ॥ ५२ ॥
नरेन्द्रनागाश्वसमाकुलानामभ्यायतीनामशिवे मुहूर्ते ।बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् ॥ ५३ ॥
« »