Click on words to see what they mean.

वैशंपायन उवाच ।ततः केशान्समुत्क्षिप्य वेल्लिताग्राननिन्दितान् ।जुगूह दक्षिणे पार्श्वे मृदूनसितलोचना ॥ १ ॥
वासश्च परिधायैकं कृष्णं सुमलिनं महत् ।कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ॥ २ ॥
तां नराः परिधावन्तीं स्त्रियश्च समुपाद्रवन् ।अपृच्छंश्चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि ॥ ३ ॥
सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता ।कर्म चेच्छामि वै कर्तुं तस्य यो मां पुपुक्षति ॥ ४ ॥
तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा ।नाश्रद्दधत तां दासीमन्नहेतोरुपस्थिताम् ॥ ५ ॥
विराटस्य तु कैकेयी भार्या परमसंमता ।अवलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ॥ ६ ॥
सा समीक्ष्य तथारूपामनाथामेकवाससम् ।समाहूयाब्रवीद्भद्रे का त्वं किं च चिकीर्षसि ॥ ७ ॥
सा तामुवाच राजेन्द्र सैरन्ध्र्यहमुपागता ।कर्म चेच्छाम्यहं कर्तुं तस्य यो मां पुपुक्षति ॥ ८ ॥
सुदेष्णोवाच ।नैवंरूपा भवन्त्येवं यथा वदसि भामिनि ।प्रेषयन्ति च वै दासीर्दासांश्चैवंविधान्बहून् ॥ ९ ॥
गूढगुल्फा संहतोरुस्त्रिगम्भीरा षडुन्नता ।रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी ॥ १० ॥
सुकेशी सुस्तनी श्यामा पीनश्रोणिपयोधरा ।तेन तेनैव संपन्ना काश्मीरीव तुरंगमा ॥ ११ ॥
स्वरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा ।कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना ॥ १२ ॥
का त्वं ब्रूहि यथा भद्रे नासि दासी कथंचन ।यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः ॥ १३ ॥
अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी ।इन्द्राणी वारुणी वा त्वं त्वष्टुर्धातुः प्रजापतेः ।देव्यो देवेषु विख्यातास्तासां त्वं कतमा शुभे ॥ १४ ॥
द्रौपद्युवाच ।नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी ।सैरन्ध्री तु भुजिष्यास्मि सत्यमेतद्ब्रवीमि ते ॥ १५ ॥
केशाञ्जानाम्यहं कर्तुं पिंषे साधु विलेपनम् ।ग्रथयिष्ये विचित्राश्च स्रजः परमशोभनाः ॥ १६ ॥
आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम् ।कृष्णां च भार्यां पाण्डूनां कुरूणामेकसुन्दरीम् ॥ १७ ॥
तत्र तत्र चराम्येवं लभमाना सुशोभनम् ।वासांसि यावच्च लभे तावत्तावद्रमे तथा ॥ १८ ॥
मालिनीत्येव मे नाम स्वयं देवी चकार सा ।साहमभ्यागता देवि सुदेष्णे त्वन्निवेशनम् ॥ १९ ॥
सुदेष्णोवाच ।मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते ।नो चेदिह तु राजा त्वां गच्छेत्सर्वेण चेतसा ॥ २० ॥
स्त्रियो राजकुले पश्य याश्चेमा मम वेश्मनि ।प्रसक्तास्त्वां निरीक्षन्ते पुमांसं कं न मोहयेः ॥ २१ ॥
वृक्षांश्चावस्थितान्पश्य य इमे मम वेश्मनि ।तेऽपि त्वां संनमन्तीव पुमांसं कं न मोहयेः ॥ २२ ॥
राजा विराटः सुश्रोणि दृष्ट्वा वपुरमानुषम् ।विहाय मां वरारोहे त्वां गच्छेत्सर्वचेतसा ॥ २३ ॥
यं हि त्वमनवद्याङ्गि नरमायतलोचने ।प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत् ॥ २४ ॥
यश्च त्वां सततं पश्येत्पुरुषश्चारुहासिनि ।एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत् ॥ २५ ॥
यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः ।तथाविधमहं मन्ये वासं तव शुचिस्मिते ॥ २६ ॥
द्रौपद्युवाच ।नास्मि लभ्या विराटेन न चान्येन कथंचन ।गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि ॥ २७ ॥
पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्यचित् ।रक्षन्ति ते च मां नित्यं दुःखाचारा तथा न्वहम् ॥ २८ ॥
यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत् ।प्रीयेयुस्तेन वासेन गन्धर्वाः पतयो मम ॥ २९ ॥
यो हि मां पुरुषो गृध्येद्यथान्याः प्राकृतस्त्रियः ।तामेव स ततो रात्रिं प्रविशेदपरां तनुम् ॥ ३० ॥
न चाप्यहं चालयितुं शक्या केनचिदङ्गने ।दुःखशीला हि गन्धर्वास्ते च मे बलवत्तराः ॥ ३१ ॥
सुदेष्णोवाच ।एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि ।न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथंचन ॥ ३२ ॥
वैशंपायन उवाच ।एवं कृष्णा विराटस्य भार्यया परिसान्त्विता ।न चैनां वेद तत्रान्यस्तत्त्वेन जनमेजय ॥ ३३ ॥
« »