Click on words to see what they mean.

वैशंपायन उवाच ।अवजित्य धनं चापि विराटो वाहिनीपतिः ।प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ॥ १ ॥
जित्वा त्रिगर्तान्संग्रामे गाश्चैवादाय केवलाः ।अशोभत महाराजः सह पार्थैः श्रिया वृतः ॥ २ ॥
तमासनगतं वीरं सुहृदां प्रीतिवर्धनम् ।उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह ॥ ३ ॥
सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट् ।विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ॥ ४ ॥
ततः स राजा मत्स्यानां विराटो वाहिनीपतिः ।उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत् ॥ ५ ॥
आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनि ।अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ॥ ६ ॥
विजेतुमभिसंरब्ध एक एवातिसाहसात् ।बृहन्नडासहायश्च निर्यातः पृथिवींजयः ॥ ७ ॥
उपयातानतिरथान्द्रोणं शांतनवं कृपम् ।कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ॥ ८ ॥
राजा विराटोऽथ भृशं प्रतप्तः श्रुत्वा सुतं ह्येकरथेन यातम् ।बृहन्नडासारथिमाजिवर्धनं प्रोवाच सर्वानथ मन्त्रिमुख्यान् ॥ ९ ॥
सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः ।त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन ॥ १० ॥
तस्माद्गच्छन्तु मे योधा बलेन महता वृताः ।उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ॥ ११ ॥
हयांश्च नागांश्च रथांश्च शीघ्रं पदातिसंघांश्च ततः प्रवीरान् ।प्रस्थापयामास सुतस्य हेतोर्विचित्रशस्त्राभरणोपपन्नान् ॥ १२ ॥
एवं स राजा मत्स्यानां विराटोऽक्षौहिणीपतिः ।व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम् ॥ १३ ॥
कुमारमाशु जानीत यदि जीवति वा न वा ।यस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति ॥ १४ ॥
तमब्रवीद्धर्मराजः प्रहस्य विराटमार्तं कुरुभिः प्रतप्तम् ।बृहन्नडा सारथिश्चेन्नरेन्द्र परे न नेष्यन्ति तवाद्य गास्ताः ॥ १५ ॥
सर्वान्महीपान्सहितान्कुरूंश्च तथैव देवासुरयक्षनागान् ।अलं विजेतुं समरे सुतस्ते स्वनुष्ठितः सारथिना हि तेन ॥ १६ ॥
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः ।विराटनगरं प्राप्य जयमावेदयंस्तदा ॥ १७ ॥
राज्ञस्ततः समाचख्यौ मन्त्री विजयमुत्तमम् ।पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम् ॥ १८ ॥
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः ।उत्तरः सह सूतेन कुशली च परंतप ॥ १९ ॥
कङ्क उवाच ।दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः ।दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ ॥ २० ॥
नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् ।ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नडा ॥ २१ ॥
वैशंपायन उवाच ।ततो विराटो नृपतिः संप्रहृष्टतनूरुहः ।श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः ।आच्छादयित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदयत् ॥ २२ ॥
राजमार्गाः क्रियन्तां मे पताकाभिरलंकृताः ।पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः ॥ २३ ॥
कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः ।वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ॥ २४ ॥
घण्टापणवकः शीघ्रं मत्तमारुह्य वारणम् ।शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम ॥ २५ ॥
उत्तरा च कुमारीभिर्बह्वीभिरभिसंवृता ।शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम् ॥ २६ ॥
श्रुत्वा तु तद्वचनं पार्थिवस्य सर्वे पुनः स्वस्तिकपाणयश्च ।भेर्यश्च तूर्याणि च वारिजाश्च वेषैः परार्ध्यैः प्रमदाः शुभाश्च ॥ २७ ॥
तथैव सूताः सह मागधैश्च नन्दीवाद्याः पणवास्तूर्यवाद्याः ।पुराद्विराटस्य महाबलस्य प्रत्युद्ययुः पुत्रमनन्तवीर्यम् ॥ २८ ॥
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः ।मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत् ।अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् ॥ २९ ॥
तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत ।न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ॥ ३० ॥
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे ।प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे ॥ ३१ ॥
विराट उवाच ।स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन ।न मे किंचित्त्वया रक्ष्यमन्तरेणापि देवितुम् ॥ ३२ ॥
कङ्क उवाच ।किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद ।देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ॥ ३३ ॥
श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः ।स राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान् ॥ ३४ ॥
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये ।अथ वा मन्यसे राजन्दीव्याव यदि रोचते ॥ ३५ ॥
वैशंपायन उवाच ।प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत् ।पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ॥ ३६ ॥
ततोऽब्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरः ।बृहन्नडा यस्य यन्ता कथं स न विजेष्यति ॥ ३७ ॥
इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत् ।समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि ॥ ३८ ॥
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ।भीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति ॥ ३९ ॥
वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमे ।नेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि ॥ ४० ॥
युधिष्ठिर उवाच ।यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः ।दुर्योधनश्च राजेन्द्र तथान्ये च महारथाः ॥ ४१ ॥
मरुद्गणैः परिवृतः साक्षादपि शतक्रतुः ।कोऽन्यो बृहन्नडायास्तान्प्रतियुध्येत संगतान् ॥ ४२ ॥
विराट उवाच ।बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि ।नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् ॥ ४३ ॥
वैशंपायन उवाच ।ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम् ।मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन् ॥ ४४ ॥
बलवत्प्रतिविद्धस्य नस्तः शोणितमागमत् ।तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत ॥ ४५ ॥
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् ।सा वेद तमभिप्रायं भर्तुश्चित्तवशानुगा ॥ ४६ ॥
पूरयित्वा च सौवर्णं पात्रं कांस्यमनिन्दिता ।तच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात् ॥ ४७ ॥
अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा ।अवकीर्यमाणः संहृष्टो नगरं स्वैरमागमत् ॥ ४८ ॥
सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा ।आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत् ॥ ४९ ॥
ततो द्वाःस्थः प्रविश्यैव विराटमिदमब्रवीत् ।बृहन्नडासहायस्ते पुत्रो द्वार्युत्तरः स्थितः ॥ ५० ॥
ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत् ।प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः ॥ ५१ ॥
क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत् ।उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नडा ॥ ५२ ॥
एतस्य हि महाबाहो व्रतमेतत्समाहितम् ।यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत् ।अन्यत्र संग्रामगतान्न स जीवेदसंशयम् ॥ ५३ ॥
न मृष्याद्भृशसंक्रुद्धो मां दृष्ट्वैव सशोणितम् ।विराटमिह सामात्यं हन्यात्सबलवाहनम् ॥ ५४ ॥
« »